Table of Contents

<<4-3-115 —- 4-3-117>>

4-3-116 कृते ग्रन्थे

प्रथमावृत्तिः

TBD.

काशिका

तेन इत्येव। तृतीयासमर्थात् कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत्कृतं ग्रन्थश्चेत् स भवति। वररुचिना कृताः वाररुचाः श्लोकाः। हैकुपादो ग्रन्थः। भैकुराटो ग्रन्थः। जालूकः। ग्रन्थे इति किम्? तक्षकृतः प्रासादः। उत्पादितं कृतं, विद्यामानाम् एव ज्ञातम् औपज्ञातम् इत्ययम् अनयोर् विशेषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1475 कृते ग्रन्थे। `तेन कृतो ग्रन्थ' इत्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.