TBD.
जनपदशब्दात् क्षत्रियाभिधायिनो द्व्यचः, मगध कलिङ्ग सूरमस इति एतेभ्यश्च अपत्ये अण् प्रत्ययो भवति। अञो ऽपवादः। आङ्गः। वाङ्गः। अपुण्ड्रः सौह्मः। मगधः। कालिङ्गः। सौरमसः। तस्य राजनि इत्येव, आङ्गो राजा।
TBD.
–
1170 द्व्यञ्मगध। अञोऽपवाद इति। जनपदशब्दादिति विहितस्याऽञोऽपवाद इत्यर्थः। द्व्यजिति। `उदाह्यियते' इति शेषः। अङ्ग, वङ्ग, सुहृ-इत्येते द्व्यचो देशक्षत्रियवाचिनः। अङ्गस्यापत्यमिति विग्रहः। तस्य राजन्यप्येवमिति। अङ्गादिदेशस्य राजेति विग्रहः।
–
TBD.