Table of Contents

<<4-3-98 —- 4-3-100>>

4-3-99 गोत्रक्षत्रियाऽख्येभ्यो बहुलं वुञ्

प्रथमावृत्तिः

TBD.

काशिका

गोत्राऽख्येभ्यः क्षत्रियाऽख्येभ्यश्च प्रातिपदिकेभ्यः बहुलं वुञ् प्रत्ययो भवति सो ऽस्य भक्तिः इत्येतस्मिन् विषये। अणो ऽपवादः। वृद्धाच् छां परत्वाद् बाधते। ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः। औपगवकः। कापटवकः। क्षत्रियाऽख्येभ्यः नाकुलकः। साहदेवकः। साम्बकः। आख्याग्रहणं प्रसिद्धक्षत्रियशब्दपरिग्रहार्थं, यथाकथंचित् क्षत्रियवृत्तिभ्यो मा भूत्। बहुलग्रहणात् क्वचिदप्रवृत्तिरेव। पाणिनो भक्तिरस्य पाणिनीयः। पौरवीयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1458 गोत्रक्षत्रिया। गोत्रप्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्चोक्तविषये बहुलं वुञ्स्यादित्यर्थः। इह न पारिभाषिकं गोत्रम्। छै बाधते इति। `औपगवक इत्यादी'विति शेषः। ग्लुचुकायनिरिति। `प्राचामवृद्धा'दिति फिनि ग्लुचुकायनिशब्दः। नाकुलक इति। क्षत्रियाख्योदाहरणम्।

तत्त्वबोधिनी

1140 वृद्धाच्छं बाधत इति। औपगवो भक्तिरस्य औपगवकः।

Satishji's सूत्र-सूचिः

TBD.