Table of Contents

<<4-2-8 —- 4-2-10>>

4-2-9 वामदेवाड् ड्यड्ड्यौ

प्रथमावृत्तिः

TBD.

काशिका

वामदेवशब्दात् तृतीयासमर्थात् दृष्टं साम इत्येतस्मिन्नर्थे ड्यत् ड्य इत्येतौ प्रत्ययौ भवतः। अणो ऽपवादः। वामदेवेन दृष्टं साम वामदेव्यं साम। तित्करणं स्वरार्थम्। डित्करणं किम् अर्थम्? ययतोश्च अतदर्थे 6-2-156 इति नञ उत्तरस्य अन्तोदात्तत्वे विधीयमाने ऽन्योर् ग्रहणं मा भूत्। अननुबन्धकग्रहणपरिभाषया एकानुबन्धकग्रहणपरिभाषया च अनयोर् निवृत्तिः क्रियते। अवामदेव्यम्। सिद्धे यस्य इति लोपेन किमर्थं ययतौ डितौ। ग्रहणं मा ऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1040 वामदेवेन दृष्टं साम वामदेव्यम्..

बालमनोरमा

1192 वामदेवाड्ड\उfffद्ड्ड\उfffदौ। वामदेव्यमिति। डित्त्वाट्टिलोपः। तित्त्वं स्वरार्थम्। ननु `यस्येति चे'ति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम्ययतोरेव विधौ `ययतोश्चाऽतदर्थे' इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधावनयोग्र्रहणं स्यात्, तदभावार्थ डित्करणं। डित्करणे सति तु स्वरविधावनयोर्न ग्रहणं `निरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहण'मिति परिभाषया `तदनुबन्धकग्रहणे सति नाऽतदनुबन्धकस्य' इति परिभाषया च तन्निवृत्तिर्भवति। एते तु परिभाषे इहैव ज्ञाप्येते। तथाच `अवामदेव्य'मित्यत्राऽयं स्वरो न भवति। एतत्सङ्ग्राहकं भाष्यस्थं श्लोकं पठति–सिद्धे यस्येत्यादि। अत्र पूर्वार्धमाक्षेपपरम्। `यस्य' इति लोपेन सिद्धे ययतौ किमर्थं डितौ कृतावित्यर्थः। ग्रहणमिति। वामदेव्यशब्दस्य नञ्स्वरे=नञाश्रयस्वरविधौ अतदर्थे=नञाश्रयस्वरविधौ अतदर्थे=`ययतोश्चातदर्थे' इति सूत्रे अनयोडर्\उfffद्ड्ड\उfffद्योग्र्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः।

तत्त्वबोधिनी

986 वामदेवात्। ग्रहणं माऽदर्थैत्यादि। अतदर्थे–`ययतोश्चातदर्थे इति विहिते'नञ्स्वरे—नञाश्रितस्वरे ड\उfffद्ड्ड\उfffद्तोग्र्रहणं मा भूदित्यर्थः। `ययतोश्चे'ति सूत्रेण विधीयमानं नञः परस्य ययदन्तस्योत्तरपदस्यान्तोदात्तत्वमवामदेव्यशब्दे मा भूत् किंतु—- अव्ययपूरक्लपदस्वर एव यखा स्यादित्येतदर्थं ढित्करणमिति फलितोऽर्थः। न च कृतेऽपि डित्त्वे `ययतो'रित्यस्य प्रवृत्तिः कृतो नेति शङ्क्यं, `निरनुबन्धकग्रहणे न सानुबन्धकस्य', `तदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये'ति परिभाषयोः सत्त्वात्। इमे च परिभाषे इहैव डित्त्वेन ज्ञाप्येते। तत्राऽऽद्यायाः प्रयोजनं—`पूरणगुणे'ति सूत्रे तव्यग्रहणे तव्यतोऽग्रहणम्। द्वितीयस्यास्तु अङ्ग्रहण् चङोऽग्रहणम्। `\उfffदायतेरः' `अहि परे'इति शेषः। अ\उfffदात्। चङि परे तु न , अशि\उfffदिआयत्।

Satishji's सूत्र-सूचिः

TBD.