Table of Contents

<<6-2-155 —- 6-2-157>>

6-2-156 ययतोश् च अतदर्थे

प्रथमावृत्तिः

TBD.

काशिका

य यतित्येतौ यौ तद्धितावतदर्थे वर्तते तदन्तस्य उत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति। पाशानां समूहः पाश्या, न पाश्या अपाश्या। अतृण्या। यत् दन्तेषु भवं दन्त्यम्, न दन्त्यम् अदन्त्यम्। अकर्ण्यम्। अतदर्थे इति किम्? पादार्थमुदकं पाद्यम्, न पाद्यम् अपाद्यम्। तद्धिता इत्येव, अदेयम्। गुणप्रतिषेधे इत्येव, दन्त्यादन्यददन्त्यम्। निरनुबन्धकैकानुबन्धकयोर् ययतोर् ग्रहणादिह न भवति, वामदेवाड्ड्यड्ड्यौ 4-2-5 वामदेव्यम्, न वामदेव्यम् अवामदेव्यम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.