Table of Contents

<<4-2-9 —- 4-2-11>>

4-2-10 परिवृतो रथः

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थात् परिवृतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यो ऽसौ परिवृतः रथश्चेत् स भवति। वस्त्रेण प्रतिवृतो रथः वास्त्रो रथः। काम्बलः। चार्मणः। रथः इति किम्? वस्त्रेण परिवृतः कायः। समन्तात् वेष्टितः परिवृत उच्यते। यस्य कश्चिदवयवो वस्त्रादिभिरवेष्टितः, तत्र न भवति। तेन इह न, छात्रैः परिवृतो रथः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1041 अस्मिन्नर्थेऽण् प्रत्ययो भवति. वस्त्रेण परिवृतो वास्त्रो रथः..

बालमनोरमा

1193 परिवृतो रथः। `तेने'त्यनुवर्तते। तेन `परिवृतोरथः' इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः। ननु छात्रैः परिवृतो रथ इत्यत्रापि स्यादित्यत आह–समन्तादिति। रथस्य समन्तादाच्छादनार्थं यद्वस्त्रादिकं रथावयवभूतं तद्वाचकादेवेत्याशयः, एकान्तग्रहणिति वार्तिकात्।

तत्त्वबोधिनी

987 परिवृतो। तृतीयान्तत्परिवृत इत्यर्थेऽणादय स्युर्यः परिवृत्तः स चेद्रथो भवति। रथाच्छादनार्थं यद्वस्त्रकम्बलादिकं तत एव सर्ववेष्टनं भवति, न तु च्छात्रादिभ्य इत्याशयेनाह—समन्ताद्वेष्टित इति। परिः सर्वतोबावे वर्तत इति भावः।

Satishji's सूत्र-सूचिः

TBD.