Table of Contents

<<4-2-7 —- 4-2-9>>

4-2-8 कलेर् ढक्

प्रथमावृत्तिः

TBD.

काशिका

कलिशब्दात् तृतीयासमर्थाद् दृष्टं साम इत्येतस्मिन्नर्थे ढक् प्रत्ययो भवति। अणो ऽपवादः। कलिना दृष्टं साम कालेयम्। सर्वत्र अग्निकलिभ्यां ढग् वक्तव्यः। अग्निना दृष्टम् आग्नेयम्। एवम् अग्नौ भवम्, अग्नेरागतम्, अग्नेः स्वम् इति सर्वत्र ढगेव भवति। आग्नेयम्। तथा कालेयम् अपि प्रतिपत्तव्यम्। दृष्टे सामनि अण् वा डिद् भवति इति वक्तव्यम्। उशनसा दृष्टं साम औशनसम्, औशनम्। जाते च अर्थे यो ऽन्येन बाधितः पुनरण् विधीयते स वा डिद् भवति इति वक्तव्यम्। प्राग्दीव्यतो ऽण् प्राप्तः कालठञा बाधितः संधिवेलाद्यृतुनक्षत्रेभ्यः इति पुनर् विधियते स वा डिद् भवति इति वक्तव्यम्। शतभिषजि जातः। शातभिषजः, शातभिषः। तीयादीकक् स्वार्थे वा वक्तव्यः। द्वैतीयीकम्। तार्तीयीकम्। द्वितीयकम्। तृतीयकम्। न विद्यायः। द्वितीया, तृतीया विद्या। गोत्रादङ्कवदिष्यते। दृष्टं साम इत्येतस्मिन्नर्थे। औपगवेन दृष्टं साम औपगवकम्। कापटवकम्। गोत्रचरणाद् वुञ् भवति। दृष्टे सामनि जाते च द्विरण् डिद्वा विधीयते। तीयादीकक् न विद्याया गोत्रादङ्कवदिष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1191 कलेर्ढक्। वार्त्तिकमिदम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.