Table of Contents

<<4-2-38 —- 4-2-40>>

4-2-39 गोत्रौक्षौष्ट्रौरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद् वुञ्

प्रथमावृत्तिः

TBD.

काशिका

गोत्रादिभ्यो वुञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते ऽपत्यमात्रं, न तु पौत्रप्रभृत्येव। औपगवानां समूहः औपगवकम्। कापटवकम्। उक्षन् औक्षकम्। उष्ट्र औष्ट्रकम्। उरभ्र औरभ्रकम्। राजन् राजकम्। राजन्य राजन्यकम्। राजपुत्र राजपुत्रकम्। वत्स वात्सकम्। मनुष्य मानुष्यकम्। अज आजकम्। प्रकृत्या ऽके राजन्यमनुष्ययुवानः इति यलोपो न भवति, आपत्यसय् च तद्धिते ऽनाति 6-4-151 इति। वृद्धाच्चेति वक्तव्यम्। वृद्धानां समूहो वार्धकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1228 गोत्रोक्षोष्ट्रो। एभ्य इति। गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज-एतेब्य इत्यर्थः लौकिकमिह गोत्रमिति। नतु पारिभाषिकमित्यर्थः। अत्र लौकिकं गोत्रं किमित्यत आह–तच्चापत्यमात्रमिति। प्रवराध्याये परिगणितं पुत्रपौत्रादि कृत्स्नापत्यमित्यर्थः। `अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते, नतु पारिभाषिकं गोत्रमिष्यते' इति `स्त्रीपुंसाभ्या'मित्यादिसूत्रबाष्ये सिद्धान्तितत्वादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.