Table of Contents

<<4-2-37 —- 4-2-39>>

4-2-38 भिक्षाऽअदिभ्यो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

भिक्षा इत्येवम् आदिभ्यः शब्देभ्यो ऽण् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। अण्ग्रहनं बाधकबाधनार्थम्। भिक्षाणां समूहः भैक्षम्। गार्भिणम् युवतिशब्दो ऽत्र पठ्यते, तस्य ग्रहणसामर्थ्याद् पुम्बद्भावो न भवति भस्याढे तद्धिते 6-3-35 इति। युवतीनां समूहो यौवतम्। भैक्षा। गर्भिणी। क्षेत्र। करीष। अङ्गार। चर्मिन्। धर्मिन्। सहस्र। युवति। पदाति। पद्धति। अथर्वन्। दक्षिणा। भूत।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1226 भिक्षादिभ्योऽण्। तस्य समूह इत्येव। भैक्षमिति। अत्र `अचित्तहस्ती'ति वक्ष्यमाणठगपवादोऽण्। गार्भिणमिति। गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः परश्च आद्युदात्तश्चेति इकारस्य उदात्तत्वे `अनुदात्तं पदमेकवर्ज'मिति शिष्टस्यानुदात्तत्वे गर्भिन्शब्दः अनुदात्तादिः। ततो नान्तलक्षणङीपि तस्य `अनुदात्तो सुप्पितौ' इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव। ततः समूहेऽर्थे `अनुदात्तादेर'ञिति वक्ष्यमाणे अञि प्राप्ते भिक्षादित्वादणिति भावः। अणि प्रत्ययस्वरेणान्तोदात्तत्वम्, अञि तु `ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वमिति स्वरे विशेषः। अणि टिलोपाऽभावोऽपि प्रयोजनमिति दर्शयति–इह भस्येति। गर्भिणीशब्दादणि सति `भस्याऽढे' इति पुंवत्त्वेन ङीपो निवृत्तौ गर्भिन् अ इति स्थिते `नस्तद्धिते' इति टिलोपे प्राप्ते सतीत्यर्थः।

तत्त्वबोधिनी

1002 भिक्षादिभ्योऽण्। भैक्षमिति। अचित्तत्वाठ्ठक् प्राप्तः। गार्भिणमिति। अनुदात्तादित्वादञ् प्राप्तः। सति हि तस्मिन्नाद्युदात्तटिलोपौ स्याताम्। न च `भस्याढे' इति पुंवाचकरूपा तिदेशान्न टिलोपः स्यादिति वाच्यं, हस्तिनीनां समूहो हास्तिकमित्यत्रापि टिलोपाऽनापत्तेः। तस्मात्स्त्रीप्रत्ययनिवृत्तिमात्रपरं तन्न तु रूपातिदेशकमिति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.