Table of Contents

<<4-2-36 —- 4-2-38>>

4-2-37 तस्य समूहः

प्रथमावृत्तिः

TBD.

काशिका

तस्य इति षष्ठीसमर्थात् समूहः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। किम् इह उदाहरणम्? चित्तवदद्युदात्तमगोत्रं यस्य च न अन्यत् प्रतिपदं ग्रहणम्। अचित्तात् ठकं वक्ष्यति, अनुदात्तादेरञ् 4-2-44, गोत्राद् वुञ्, प्रतिपदं च केदाराद् यञ्च 4-2-40 इत्येवम् आदि, तत्परिहारेण अत्र उदाहरणं द्रष्टव्यम्। काकानां समूहः काकम्। बाकम्। इनित्रकट्यचश्च 4-2-51 इति यावत् समूहाधिकारः। गुणादिभ्यो ग्रामज् वक्तव्यः। गुणग्रामः। करणग्रामः। गुण। करण। तत्त्व। शब्द। इन्द्रिय। आकृतिगनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1052 अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात्. तेन नस्तद्धित इति टिलोपो न. युवतीनां समूहो यौवनम्..

बालमनोरमा

1225 तस्य समूहः। इनित्रकठ\उfffद्चस्चे'ति यावदिदमनुवर्तते। अस्मिन्नर्थे प्रथमोच्चारितात्षष्ठ\उfffद्न्तात्प्राग्दीव्यतीया अणादयो यथासम्भवं स्युरित्यर्थः। `अचित्तहस्तिधेनोष्ठ'गित्याद्यपवादविषयं परिह्मत्योदाहरति–काकं बाकमिति।समूहप्रत्ययान्तानां नपुंसकत्वं लोकात्।

तत्त्वबोधिनी

1001 तस्य समूहः। इह `अचित्ताठ्ठक्', `अनुदात्तादेरञ्', गोत्रान्ताद्वुञ्', `केदाराद्यञ्च'इत्यादिना प्रतिपदं यञादीश्त वक्ष्यति। तथा च चित्तवदाद्युदात्तमगोत्रान्तं प्रतिपदोक्तप्रत्ययरहितमिहोदाहरणमित्यशयेनोदाहरति— काकम्। बाकमिति। एवं वार्कम्। काकबकवृकशब्दाः `प्राणिनां कुपूर्व'मिति फिट्सूत्रेणाद्युदात्ताः। प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे, तेषामुदात्तः स्यादिति सूत्रार्थः। `अथादिः प्राक् शकटेः'इत्यधिकारात्। यत्तु वृत्तिन्यासयोः शौकमित्युहाह्मतं, तदुपेक्ष्यम्। खण्डिकादिषु शुकशब्दस्य पाठातत्राऽञा भाव्यमिति हरदत्तादयः।

Satishji's सूत्र-सूचिः

TBD.