Table of Contents

<<4-2-50 —- 4-2-52>>

4-2-51 इनित्रकट्यचश् च

प्रथमावृत्तिः

TBD.

काशिका

खलगोरथशब्देभ्यो यथासङ्ख्यम् इनि त्र कट्यचित्येते प्रत्यया भवन्ति तस्य समूहः इत्येतस्मिन् विषये। खलिनी। गोत्रा। रथाकट्या। खलादिभ्य इनिर् वक्तव्यः। डाकिनी। कुण्डलिनी। कुटुम्बिनी। कमलादिभ्यः खण्डच् प्रत्ययो भवति। कमलखण्डम्। अम्भोजखण्डम्। कमल। अम्भोज। पद्मिनी। कुमुद। सरोज। पद्म। नलिनी। कैरविणी। कमलादिराकृतिगणः। नरकरितुरङ्गाणाम् स्कन्धच् प्रत्ययः। नरस्कन्धः। करिस्कन्धः। तुरङ्गस्कन्धः। पूर्वादिभ्यः काण्डः प्रत्ययो भवति। पूर्वकाण्डम्। तृणकाण्डम्। कर्मकाण्डम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1241 इनित्र। स्युरिति। इनि त्र कट\उfffद्च्–एते स्युरित्यर्थः। खलिनीति। खलानां समूह इति विग्रहः। इनिप्रत्यये नकारादिकार उच्चारणार्थः। स्त्रीत्वं लोकात्। नान्तत्वान्ङीप्। गोत्रेति। गवां समूह इति विग्रहः। गोशब्दात्रः। स्त्रीत्वं लोकात्। टाप्। रथकट\उfffदेति। रथानां समूह इति विग्रहः। कठ\उfffद्चि ककारस्य नेत्त्वम्, अतद्धित इत्युक्तेः स्त्रीत्वाट्टाप्। `इनित्रकट\उfffद्चश्चे'ति सूत्रे इनिग्रहणमकृत्वा `गोरथात्रकट\उfffद्चौ' इत्येव सूत्रं कृत्वा `खलादिभ्य इनि'रिति पृथक्कर्तव्यमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.