Table of Contents

<<4-2-33 —- 4-2-35>>

4-2-34 कालेभ्यो भववत्

प्रथमावृत्तिः

TBD.

काशिका

कालविशेषवाचिभ्यः शब्देभ्यो भववत् प्रत्यया भवन्ति सा ऽस्य देवता इत्यस्मिन् विषये। कालाट् ठञ् 4-3-11 इति प्रकरणे भवे प्रत्यया विधास्यन्ते ते सा ऽस्य देवता इत्यस्मिनर्थे तथा एव इष्यन्ते, तदर्थम् इदम् उच्यते। वत्करणं सर्वसादृश्यपरिग्रहार्थम्। मासे भवम् मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्। तथा मासो देवता ऽस्य मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1218 कालेभ्यो भववत्। कालवाचिभ्यो भवेऽर्थे येन विशेषणेन ये प्रत्यया वक्षयन्ते, ते `साऽस्य देवते'त्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः। मासिकमिति। मासो देवता अस्येति विग्रहः। कालाट्ठञ्। प्रावृषेण्यमिति। प्रावृट् देवता अस्येति विग्रहः। `प्रावृष एण्यः'।

तत्त्वबोधिनी

1000 कालेभ्यो। कालवाचिभ्यो ये प्रत्यया भवार्थे वक्ष्यन्ते ते `सास्य देवता'इत्यस्मिन्नर्थेऽनेनातिदिश्यन्ते। वत्करणं सर्वसादृश्यार्थम्। तेन यस्माद्यो विहितस्तस्मात्स एव भवति नाऽन्यः। तथैवोदाहरति—मासिकम्। प्रावृषेण्यमिति। `कालाठ्ठञ्'। `प्रावृष एण्यः। वृत्त्याद्यनुरोधेनोक्तं। भाष्ये तु आनङादेशो महच् प्रत्ययश्च निपात्यते। तेनावग्रहः सिध्यतीत्युकतम्।\र्\नवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः। सकारपाठेति। अन्यथा प्रक्रियालाघवाय षकारमेव पठेदिति भावः। एतच्च मनोरमायां स्थितम्। अन्ये तूक्तरीत्य। `अविसोढ' मित्यत्र षत्वनिवारणेऽपि `अविदूस'मित्यादौ स्यादेव षत्वम्। तत्र हि ण्यन्तात्क्विपि `अविदूः'इत्यादिरूपसिद्धये सकारपाठसामथ्र्यस्योपक्षीणत्वात्। तस्मात् `अविसोढ'मित्यादि भाष्यकृदुदाहरणेषु सकारपाठसामथ्र्यादिति व्याख्येयमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.