Table of Contents

<<4-2-34 —- 4-2-36>>

4-2-35 महाराजप्रोष्ठपदाट् ठञ्

प्रथमावृत्तिः

TBD.

काशिका

महाराजशब्दात् प्रोष्ठपदशब्दाच् च ठञ् प्रययो भवति सा ऽस्य देवता इत्यस्मिन् विषये। महाराजो देवता अस्य माहाराजिकम्। प्रौष्ठपदिकम्। ठञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसङ्ख्यानम्। नवयज्ञो ऽस्मिन् वर्तते नावयज्ञिकः कालः। पाकयज्ञैकः। पूर्णमासादण्। पूर्णमासो ऽस्यां वर्तते पौर्णमासी तिथिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1219 महाराजप्रोष्ठपदाट्ठञ्। माहाराजिकमिति। महाराजो वैश्रवणः, स देवता अस्येति विग्रहः। प्रौष्ठपदिकमिति। प्रोष्ठपदो देवता अस्येति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.