TBD.
सा इति प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं देवता चेत् सा भवति। यागसंप्रदानं देवता, देयस्य पुरोडाशादेः स्वामिनी, तस्मिन्नभिधेये प्रत्ययः। इन्द्रो देवता अस्य ऐन्द्रं हविः। आदित्यम्। बार्हस्पत्यम्। प्राजापत्यम्। देवता इति किम्? कन्या देवता अस्य। कथम् ऐन्द्रो मन्त्रः? मन्त्रस्तुत्यम् अपि देवता इत्युपचरन्ति। कथम् आग्नेयो वै ब्राह्मणो देवता इति? उपमानाद् भविष्यति। महाराजप्रोष्ठपदाट् ठञ् 4-2-35 इति यावत् सा ऽस्य देवता इत्यधिकारः। सा इति प्रकृते पुनः समर्थविभक्ति निर्देशः संज्ञानिवृत्त्यर्थः।
TBD.
1044 इन्द्रो देवतास्येति ऐन्द्रं हविः. पाशुपतम्. बार्हस्पत्यम्..
1207 साऽस्य देवता। अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः। ऐन्द्रं हविरिति। इन्द्रात्मकदेवतासम्बन्धीत्यर्थः। पाशुपतमिति। पशुपतिर्देवता अस्येति विग्रहः। ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्त्रयमित्याद्यनुपपन्नमित्यत आह–त्यज्यमानद्रव्ये इति। `हविश्शेषमृत्विग्भ्यो ददाति', विप्राय गां ददाती'त्यादौ ऋत्विग्विप्रादेर्देवतात्वव्यावृत्तये विशेषग्रहणम्। त्यज्यमानहविस्साध्योऽस्मदाद्यप्रत्यक्षः यस्तृप्त्याद्युपकारस्तदाश्रयो देवतेति यावत्। मन्त्रस्तुत्या चेति। `अग्निमीडे पुरोहित'मित्यादिमन्त्रेषु यज्ञपुरोहितत्वादिगुणविशिष्टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः। ऐन्द्रो मन्त्र इति। इन्द्रस्तुत्यको मन्त्र इत्यर्थः। ननु `आग्नेयो वै ब्राआहृणो देवतया' इत्यत्र कथं देवतातद्धितः। अत्र अग्नेर्हविरुद्देश्यत्वस्य मन्त्रस्तुत्यत्वस्य चाऽभावादित्यत आह–आग्नेयो वै इति। शैषिकेऽर्थे इति। `शेषे' इति सूत्रलब्धे तदभिमानिकत्वे गम्ये इत्यर्थः। अग्निर्नाम यो देवताजातिविशेषो लोकवेदसिद्धस्तदभिमानिको ब्राआहृण इति बोधः।
996 सास्य। `से'ति प्रकृतं संज्ञासंबद्ध'मिति पुनः साग्रहणं कृतिमित्याहुः। इहैव सूत्रे निपातनाद्देवशब्दत्स्वार्थे तल्। मन्त्रस्तुत्येति। मन्त्रेण स्तुत्या। `एतिस्तुशा'सित्यादिना क्यपि तुक् टाप्। आग्नेयो वै ब्राआहृण इति। इहाग्न्युद्देसेन ब्राआहृणो न त्यज्यत इति कथमयं प्रयोग इति न शङ्क्यमिति भावः। परत्वादादिवृद्धिरिति। इदं च समाधानं श्रायमित्यत्रावश्यकमिति तेनैव परिहारसंभवादित्वविधानसामथ्र्यमिह नाश्रितम्।
TBD.