Table of Contents

<<4-2-24 —- 4-2-26>>

4-2-25 कस्य इत्

प्रथमावृत्तिः

TBD.

काशिका

कशब्दो देवतायां प्रजापतेर् वाचकः, ततः पूर्वेन एव अण् प्रत्ययः सिद्धः, इकारादेशार्थम् वचनम्। कस्य इकारादेशो भवति प्रत्ययसन्नियोगेन। कायं हविः। कायम् एककपालं निर्वपेत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1208 कस्येत्। प्रत्ययसंनियोगेनेति। `साऽस्य देवते'ति विहिते कशब्दादण्प्रत्यये परे तत्संन्नियोगेन प्रकृतेरिकारोऽन्तादेश इत्यर्थः। तताच कशब्दादणि प्रकृतेरिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम्। तत्र कि-अ इति स्थिते `यस्येति चे'ति इकारलोपमाशङ्क्याह–यस्येति लोपादिति। कशब्दस्य विवरणं–ब्राहृएति। यद्यप्यत्र इत्त्वविधिबलादेव लोपो न भवतीति भाष्यम्, तथापि वस्तुस्थितिकथनमिदम्। तस्य प्रयोजनमाह–श्रायं हविरिति। अत्रेदमवधेयम्। `कस्ये'दित्यत्र कशब्दस्य अकारान्तस्य षठ\उfffदेकवचनमित्येकः पक्षः। सर्वादिगणपठितस्य किंशब्दस्य षष्ठ\उfffदेकवचनमिति पक्षान्तरम्। तत्राद्यपक्षे हविःप्रचारे `कायानुब्राऊही'ति प्रैष इति निर्विवादं, सर्वादिगणबहुर्भूतत्वेन स्मैबावाऽसम्भवात्। द्वितीयपक्षे तु किंशब्दस्य प्रजापतिनामत्वेन असर्वनामत्वान्न स्मैभावः, अन्वर्थसंज्ञाबलेन एकार्थवृत्तेः संज्ञाशब्दस्य सर्वनामत्वात् `कस्मा अनुब्राऊही'त्येव संप्रैष इति भाष्ये प्रपञ्चितम्। एवञ्च विष्णुसहरुआनामसु-`वि\उfffदां विष्णुः' इति, `एकौ नैकः सवः कः किं यत्तत्पदमनुत्तम'मिति च पठितम्। वि\उfffदाआदिशब्देष्वप्ययं न्यायस्तुल्यः। तथाच वि\उfffदास्म#ऐ नमः, `वि\उfffदाआय नमः' इत्यादि प्रयोज्यमित्यास्तां प्रासङ्गिकम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.