Table of Contents

<<4-2-22 —- 4-2-24>>

4-2-23 विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः

प्रथमावृत्तिः

TBD.

काशिका

फल्गुन्यादयः पौर्णमासीशब्दाः तेभ्यो विभाषा ठक् प्रत्ययो भवति, सा ऽस्मिन् पौर्णमासी इति सज्ञायाम् 4-2-21 इत्येतस्मिन् विषये। नित्यम् अणि प्राप्ते पक्षे ठग् विधीयते। फाल्गुनो मासः, फाल्गुनिकः। श्रावणः, श्रावणिकः। कार्तिकः, कार्तिकिकः। चैत्रः, चैत्रिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1206 विभाषा फाल्गुनी। एभ्यष्ठग्वेति। `सास्मिन्' इत्युक्तविषये' इति शेषः। फाल्गुनिकः–फाल्गुनो वा मास इति। फाल्गुनी पौर्णमास्यस्मिन्निति विग्रहः एवं श्रावणिक इत्यादि। इति युक्ताद्यर्थकाः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.