Table of Contents

<<4-2-20 —- 4-2-22>>

4-2-21 सा ऽस्मिन् पौर्णमासी इति संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

सा इति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं पौर्णमासी चेद् भवति। इतिकरणः ततश्चेद् विवक्षा भवति। संज्ञायाम् इति समुदायोपाधिः, प्रत्ययान्तेन चेत् संज्ञा गम्यते इति। मासार्धमाससंवत्सराणाम् एषा संज्ञा। पौषी पौर्णमासी अस्मिन् पौषो मासः। पौषो ऽर्धमासः। पौषः संवत्सरः। इह न भवति, पौषी पौर्णमासी अस्मिन् दशरात्रे इति। भृतकमासे च न भवति। इतिकरणस्य संज्ञाशब्दस्य च तुल्यम् एव फलं प्रयोगानुसरणं, तत्र किमर्थं द्वयम् उपादीयते? संज्ञाशब्देन तुल्यताम् इति करणस्य ज्ञापयितुं, न ह्ययं लोके तथा प्रसिद्धः। संज्ञार्थत्वे तु सम्प्रति ज्ञापिते यत् तत्र तत्र उच्यते इतिकरणस् ततश्चेद् विवक्षा इति तदुपपन्नं भवति। अथ पौर्णमासी इति को ऽयं शब्दः। पूर्णमासादण् पौर्णमासी। अथवा पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी। मा इति चन्द्र उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1204 सोमे मत्तेर् मिस्सिन्ग्—–चोन्तिनुए—इतिशब्दादिति। एतच्च भाष्ये स्थितम्। पौषीति। पुष्येण युक्ता पौषी पौर्णमासी, सा यस्मिन्मासे स पौषो मासः। पौषीशब्दादणि `यस्येति चे'ति ईकारलोपः। एवं मघाभिर्युक्ता पौर्णमासी माघी, सा यस्मिन्स माघो मासः। तथा फाल्गुन इत्यादि। संज्ञायां किम् ?। पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे।

तत्त्वबोधिनी

995 सास्मिन्। सेति प्रथमान्तदस्मिन्निति सप्तम्यन्तार्थे प्रत्ययः स्याद्यः प्रथमान्तार्थः स चेत्पौर्णमसी भवनति। इतिशब्दादिति। स हि लौकिर्की विवक्षामनुसारयति। वृत्तिकृता तु सूत्रे एव `संज्ञाया'मिति प्रक्षिप्तम्। पौर्णमासीति। पूर्णो मासोऽस्यां तिथाविति बहुव्रीहौ प्रज्ञादित्वात्स्वार्थिकोऽणीति हरदत्तादयः। `तदस्मिन्वर्तते'इत्यधिकारे `पूर्णमासादण् वक्तव्यः'इति वार्तिकं न कर्तव्यमिति तदाशयः।

Satishji's सूत्र-सूचिः

TBD.