Table of Contents

<<4-2-108 —- 4-2-110>>

4-2-109 उदीच्यग्रामाच् च बह्वचो ऽन्तोदात्तात्

प्रथमावृत्तिः

TBD.

काशिका

दिग्ग्रहणं निवृत्तम्। उदीच्यग्रामवाचिनः प्रातिपदिकाद् बह्वचो ऽन्तोदात्तादञ् प्रत्ययो भवति शैषिकः। अणो ऽपवादः। शैवपुरम्। माण्डवपुरम्। उदीच्यग्रामातिति किम्? माथुरम्। बह्वचः इति किम्? ध्वजी। ध्वाजम्। अन्तोदात्तातिति किम्? शार्करीधानम्। शर्करीधानशब्दे लित्स्वरेण धानशब्द उदात्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1311 उदीच्यग्रामाच्च। शैवपुरमिति। उत्तरदेशे शिवपुरं नाम ग्रामविशेषः। तत्र भवमित्यर्थः। समासस्येत्यन्तोदात्तः शिवपुरशब्दः। बह्वचः किम्। ङीषन्तो ध्वञ्जी नाम उत्तरदेशे ग्रामविशेषः। तत्र भवो ध्वाञ्जः। अन्तोदात्तात्किम् ?। शार्करीधनाम्। कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यैवावस्थानान्मध्योदात्तोऽयम्।

तत्त्वबोधिनी

1050 उदीच्य। दिग्ग्रहणं निवृत्तम्। उदीच्यग्रामात्किम्?। माधुरः। बह्वचः किम्?। ध्वाजः। पिप्पल्यादिङीषन्तो ध्वजीशब्दः। अन्तोदात्तत्किम्?। शार्कराधानम्, शर्कराघानशब्दे धाशब्दाकार उदात्तः। कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यावस्थानात्। शैवपुरमिति। `प्रस्थपुरवहान्ताच्चे'ति वुञ्न भवति, `वृद्धा'दिति तत्रावुवृत्तेः।

Satishji's सूत्र-सूचिः

TBD.