Table of Contents

<<4-2-104 —- 4-2-106>>

4-2-105 ऐषमेओह्यःश्वसो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

ऐषमस् ह्यस् श्वसित्येतेभ्यो ऽन्यतरस्यां त्यप् पत्ययो भवति शैषिकः। ऐषमस्त्यम्, ऐषमस्तनम्। ह्यस्त्यम्, ह्यस्तनम्। श्वस्त्यम्, श्वस्तनम्। श्वसस्तुट् च 4-3-15 इति ठञपि तृतीयो भवति। शौवस्तिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1307 ऐषमोह्रः। एभ्य इति। ऐषमस्, ह्रस्, \उfffदास् एतेभ्य इत्यर्थः। वक्ष्यमाणाविति। `सायञ्चिरंप्राहेप्रगेऽव्ययेभ्यष्ट\उfffदुठ्युलौ तुट् चे'त्यनेनेति शेषः। ऐषमस्त्यमिति। ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते। तत्र भवमित्यर्थः। `परुत्परो र्यैषमो।ञब्दे पूर्वे पूर्वतरे यती'त्यमरः। ऐषमस्तनमिति। ठ्युठ्युलौ वा। टावितौ, य्वोरनादेशः, तस्य तुट्, ट इत्, उकार उच्चारणार्थः, टित्त्वादाद्यवयवः। ह्रस्त्यं, ह्रस्तनमिति। ह्रसित्यव्ययं गतेऽह्नि। तत्र भवमित्यर्थः। \उfffदास्त्यं-\उfffदास्तनमिति। \उfffदास् इत्यव्ययमनागतेऽह्नि। तत्र भवमित्यर्थः। `ह्रो गतेऽनागतेऽह्नि \उfffदाः' इत्यमरः। पक्षे इति। `\उfffदासस्तुट् चे'ति ठञि तस्य इकादेशे तुडागमे `द्वारादीनां चे'त्यैजागमे `शौवस्तिक'मित्यपि वक्ष्यमाणं रूपमित्यर्थः।

तत्त्वबोधिनी

1047 वक्ष्यमाणाविति। `सायंचिर'मित्यादिने'ति शेषः। वक्ष्यत इति। `\उfffदासस्तुट् चे'त्यत्र।

Satishji's सूत्र-सूचिः

TBD.