Table of Contents

<<4-2-103 —- 4-2-105>>

4-2-104 अव्ययात् त्यप्

प्रथमावृत्तिः

TBD.

काशिका

अव्ययात् त्यप् प्रत्ययो भवति शैषिकः। अमेहक्वतसित्रेभ्यस् त्यद्विधिर् यो ऽव्ययात् स्मृतः। निनिर्भ्यां घ्रुवगत्योश्च प्रवेशो नियमे तथा। अमात्यः। इहत्यः। क्वत्यः। इतस्त्यः। तत्रत्यः। यत्रत्यः। परिगणनं किम्? औपरिष्टः पौरस्तः। पारस्तः। वृद्धात्तुधो भवति। आरातीयः। त्यब् नेर्घ्रुवे। नियतं घ्रुवम् नित्यम्। निसो गते। निर्गतो वर्णाश्रमेभ्यः निष्ट्यः चण्डालादिः। आविसश् छन्दसि। आविस् शब्दाच् छन्दसि त्यप् प्रत्ययो भवति। आविष्ट्यो वर्धते चारुरासु। अरण्याण् णो वक्तव्यः। आरण्याः सुमनसः। दूरादेत्यः। दूरेत्यः पथिकः। उत्तरादाहञ्। औत्तराहम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1077 (अमेहक्वतसित्रेभ्य एव). अमात्यः. इहत्यः. क्वत्यः. ततस्त्यः. तत्रत्यः. (त्यब्नेर्ध्रुव इति वक्तव्यम्). नित्यः..

बालमनोरमा

1305 अव्ययात्त्यप्।\र्\नमेहेति। अमा, इह, क्व, तसि, त्र एभ्य एव अव्ययेभ्यस्त्यप्प्रत्यय इति परिगणनवार्तिकमिदम्। अमात्य इति। समीपे सह वा जात इत्यर्थः। औपरिष्ट इति। `उपरिष्टा'दित्यव्ययस्य परिगणितेष्वनन्तर्भावान्न त्यप्। अणि `औपरिष्ट' इति रूपमित्यर्थः। वार्तिकमिदम्। भमात्रे इति। कार्त्स्न्ये मात्रशब्दः। कृत्स्नस्य भस्याव्ययस्य टेर्लोपः। `नस्तद्धिते' इत्याद्युपाधिर्नापेक्षित इत्यर्थः। नन्वेवं सति आरादित्यव्ययाच्छस्य ईयादेशे टिलोपे `आरीय' इति स्यादित्यत आह–अनित्योऽयमिति।

नित्य'मिति भाष्यम्। इत्यर्थः। निस्-त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाऽभावाच्च षत्वे अप्राप्ते–।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.