Table of Contents

<<4-2-105 —- 4-2-107>>

4-2-106 तीररूप्यौत्तरपदादञ्ञौ

प्रथमावृत्तिः

TBD.

काशिका

तीरौत्तरपदात् रूप्यौत्तरपदाच् च प्रातिपदिकाद् यथासङ्ख्यम् अञ् ञ इत्येतौ प्रत्ययौ भवतः शैषिकौ। अणो ऽपवादौ। काकतीरम्। पाल्वलतीरम्। रूप्योत्तरपदात् वार्करूप्यम्। शैवरूप्यम्। तीररूप्यान्तातिति नोक्तं बहुच्प्रत्ययपूर्वाद् मा भूतिति। बाहुरूप्यम्। अणेव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1308 तीररूप। तीरोत्तरपदाद्रूपोत्तरपदाच्च क्रमादञ्ञ्यश्चेत्यर्थः। काकतीरमिति। ककतीरे भवतित्यर्थः। पाल्वलतीरमिति। पल्वलतीरे भवमित्यर्थः। शैवरूप्यमिति। शिवरूपे भवमित्यर्थः। `रूप्योत्तरपदे'ति क्वचित्पाठः। तथा सति ञ्यप्रत्यये `यस्येति चे'त्यकारलोपे द्वियकारं रूपम्। बाहुरूपमिति। `विभाषा सुपो बहुच् पुरस्तात्तु' इति बहुपूर्वस्य रूपान्तत्वेऽपि तदुत्तरपदकत्वाऽभावान्न ञ्य इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.