TBD.
प्राच्येभ्यः भर्गादिभ्यः यौधेयादिभ्यश्च उत्पन्नस्य लुग्न भवति। अतश्च 4-1-177 इत्यनेन स्त्रियां लुक् प्राप्तः प्रतिषिध्यते। प्राच्येभ्यः क्षत्रियेभ्यस् तावत् पाञ्चाली। वैदेही। आङ्गी। वाङ्गी। मगधी। भर्गादिभ्यः भार्गी। कारूषी। कैकेयी। यौधेयादिभ्यः यौधेयी। शौभ्रेयी। शौक्रेयी। कस्य पुनरकारस्य प्रत्ययस्य यौधेयादिभ्यो लुक् प्राप्तः प्रतिषिध्यते? पाञ्चमिकस्यञः, पर्श्वादियौधेयादिभ्याम् अनञौ इत्येतस्य। कथं पुनस् तस्य भिन्नप्रकरणस्थस्य अनेन लुक् प्राप्नोति? एतदेव विज्ञापयति पाश्चमिकस्य अपि तद्राजस्य अतश्च इत्यनेन लुग् भवति इति। किम् एतस्य ज्ञापनेन प्रयोजनम्? पर्श्वाद्याणः स्त्रियां लुक् सिद्धो भवति। पर्शूः। रक्षाः। असुरी। तथा च उक्तं यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुकिति। भर्ग। करूष। केकय। कश्मीर। साल्व। सुस्थाल। उरश। कौरव्य। इति भर्गादिः। यौधेय। शौभ्रेय। शौक्रेय। ज्याबानेय। धार्तेय। धार्तेय। त्रिगर्त। भरत। उशीनर। यौधेयादिः। इति श्रीजयादित्यविरचितायाम् काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः। चतुर्थाध्यायस्य द्वितीयः पादः।
TBD.
–
1179 न प्राच्य। एभ्य इति। प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चेतियर्थः। एते प्राच्या इति। `क्षत्रिया' इति शेषः। यथायथमञोऽणश्च लुक्। भर्गादीनुदाहरति– भार्गीस कारूशी, कैकेयीति। जन्यजनकभावेति। अत्र यद्वक्तव्यं तत् `पुंयोगादाख्याया'मित्यत्रोक्तम्। अथ यौधेयादिभ्यो लुक्प्रतिषेधं दर्शयितुमाह– युधा, शुक्रा इत्यादिना। ढगिति। युधाया अपत्यं, शुक्राया अपत्यमिति विग्रहे तन्नामिकाऽणं बाधित्वा `द्व्यचः' इति ढकि एयादेशे `यस्येति चे'त्यकारलोपे आदिवृद्धिः। यौधेयशब्दात्, शौक्रेयशबदाच्च `पर्\उfffदाआदियौधेयादिभ्योऽणञौ' इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अञि `यस्येति चे'त्यकारलोपे `शाङ्र्गरवाद्यञः' इति ङीनि यौधेयी शौक्रेयीति रूपमिति भावः। नन्वत्र `अतश्च' इत्यञोलुकि सत्यपि `टिड्ढे'ति ङीपि, यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणनर्थकमित्यत आह– अतश्चेति लुकि त्विति। उदात्तनिवृत्तीति। अनुदात्तस्य च यत्रोदात्तलोपः' इत्यनेन ङीबुदात्तः स्यात्। सिद्धान्ते त्वञन्तत्वान्ङीनि आद्युदात्तत्वमिति भावः।
975 तद्राजस्यऽकारस्येति। सूत्रे तपरकरणं विस्पष्टार्थमिति भावः। शूरसेनीति। अञो लुकि `जाते'रिते ङीष्। न त्वञन्तदलक्षणो ङीन्, `अञो योऽकारस्तदन्ता'दिति व्याख्यानात्। कारूशीति। कृञ उः करुः, तं वष्टि करुशः। `वश कान्तौ'मूलविभुजादित्वात्कः। `ग्रहिज्ये'ति संप्रसारणम्। तस्यापत्यं राजा वा कारुशः। स्त्रियां कारूशी। एतेन मूर्धन्योष्मोपधः पाठो निरस्तः। यौधेयादिभ्यो लुक्प्रतिषेधमुदाहर्तुमाह—युधाष शुक्रेत्यादि। अतश्चेति लुकि त्विति। `ञ्यादस्तद्राजाः'इति वक्ष्यमाणत्वादञोऽस्य तद्राजत्वमस्तीति भावः। योपधत्वान्ङीषः प्राप्तिर्नेत्याशयेनाह—ङीपीति। उदात्तनिवृत्तिस्वर इति। `अनुदात्तस्य च यत्रोदात्तलोपः' इत्यनेन ङीबुदात्तः स्यादित्यर्थः। सिद्धान्ते त्वञो लुगभावान्ङीन्याद्युदात्तत्वमिति ज्ञेयम्। स्यादेतत्। `अतश्चे'ति सूत्रेण विधीयमानो लुक् चातुरर्थिकानामेव तद्राजानां भवतु संनिधानात्, न तु `ञ्यादयस्तद्राजाः'इति पाञ्चमिकानामपि तद्राजानामिति किमनेन यौधेयादिग्रहणेन?। सत्यम्। `व्याप्तिन्यायेन पाञ्चमिकस्यापीह ग्रहण'मिति ज्ञापयितुं यौधेयादिग्रहणम्। तेन पार्\उfffदाआद्यणः स्त्रियां लुक् सिध्यति। तथा हि पर्शुः क्षत्रिय#ओ जनपदेन समानशब्दः। तस्यापत्यं स्त्री। `द्व्यञ्महधे'त्यण्, तस्य `अतश्चे'ति लुक्। पुनः पर्\उfffदाआदिलक्षणः स्वार्थिकोऽण्। तस्यापि लुकि `ऊङुतः'पर्शूः। एवं रक्षसः क्षत्रियस्यापत्यं स्त्री रक्षाः। पूर्ववदण्द्वयस्यापि लुकि `अत्वसन्तस्ये'ति दीर्घः। उक्तं च वार्तिककृता—`पर्\उfffदाआदिभ्यो लुग्वक्तव्यः। यौधेयादिप्रतिषेधो वा ज्ञापकः–पार्\उfffदाआदिलुगि'ति यौधेयीत्यादि। युधायाः शुक्राया अपत्यं स्त्रीति विग्रहः।
TBD.