Table of Contents

<<4-2-11 —- 4-2-13>>

4-2-12 द्वैपवैयाघ्रादञ्

प्रथमावृत्तिः

TBD.

काशिका

द्वीपिव्याघ्रयोर् विकरभूते चर्मणो द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथः इत्येतस्मिन्नर्थे अञ् प्रत्ययो भवति। अणो ऽपवादः। स्वरे विशेषः। द्वैपेन परिवृतो रथः द्वैपः। वैयाघ्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1195 द्वैपवैयाघ्रादञ्। तेनेति परिवृतो रथ इति चानुवर्तते। तृतीयान्ताद्द्वैपशब्दार्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः। अणोऽपवादः। स्वरे विशेषः। द्वीपिन इति। द्वीपी–व्याघ्रः, तस्य विकारश्चर्मेत्यर्थे `प्राणिरजतादिभ्यः' इत्यञि द्वैपशब्द इत्यर्थः। एवं वैयाघ्र इति। व्याघ्रस्य चर्म, वैयाघ्रम्। अञि `न य्वाभ्या'मित्यैच्। तेन परिवृतो वैयाघ्र इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.