Table of Contents

<<4-2-1 —- 4-2-3>>

4-2-2 लाक्षारोचनाशकलकर्दमाट् ठक्

प्रथमावृत्तिः

TBD.

काशिका

लाक्षादिभ्यो रागवचनेभ्यस् तृतीयासमर्थेभ्यो रक्तम् इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अणो ऽपवादः। लाक्षया रक्तं वस्त्रम् लाक्षिकम्। रौचनिकम्। शाकलिकम्। कार्दमिकम्। शकलकर्दमाभ्यामणपीष्यते। शाकलम्। कार्दम्। नील्या अन् वक्तव्यः। नील्या रक्तं नीलं वस्त्रम्। पीतात् कन् वक्तव्यः। पीतेन रक्तं पीतकम्। हरिद्रामहारजनाभ्यामञ् वक्तव्यः। हारिद्रम्। माहरजनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1185 लाक्षारोचनाट्ठक्। अमोऽपवादः। लाक्षिक इति। `पट' इति शेषः। लाक्षया रक्त इति विग्रहः। रौचनिक इति। रोचनया रक्त इति विग्रहः। रागद्रव्यविशेषः। वृत्तिरिति। भाष्ये तु नैतद्दृष्टम्। `वक्तव्य' इति शेषः। अणोऽपवादः। नीली ओषधिविशेषः। पीतं हरितालकादि द्रव्यम्। प्रसिद्धा। महारजनं–नाम रागद्रव्यविशेषः। इति रक्ताधिकारः।

तत्त्वबोधिनी

981 लाक्षरोचनात्। वृत्तिकृता तु वार्तिकस्थौ शकलकर्दमौ सूत्रे प्रिक्षिप्तौ। `शकलं त्वचि खण्डे च रागवस्तुनि वल्कले'इति वि\उfffदाः। नैकद्दृष्टमिति भावः। अणपवादोऽयम्।

Satishji's सूत्र-सूचिः

TBD.