Table of Contents

<<4-1-100 —- 4-1-102>>

4-1-101 यञिञोश् च

प्रथमावृत्तिः

TBD.

काशिका

यञन्तातिञन्ताच् च प्रातिपदिकादपत्ये फक् प्रत्ययो भवति। गार्ग्यायणः। वात्स्यायनः। इञन्तात् दाक्षायणः। प्लाक्षायणः। द्वीपादनुसमुद्रं यञ् 4-3-10, सुतङ्गमादिभ्य इञ् 4-2-80 इत्यतो न भवति। गोत्रग्रहणेन यञिञौ विशेष्येते। तदन्तात् तु यून्येव अयं प्रत्ययः, गोत्राद् यूनि प्रत्ययो भवति इति वचनात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1015 गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्..

बालमनोरमा

1087 यञिञोश्च। `गोत्रे' इत्यधिकृतं यञिञोर्विशेषणं, नतु विधेयस्य फकः, व्याख्यानात्। तदाह–गोत्रे यौ यञिञाविति। सामथ्र्याद्यून्ययम्। न हि गोत्रप्रत्ययात् गोत्रप्रत्ययोऽस्ति, `एको गोत्रे' इति नियमात्। अनातीति। गर्गस्य गोत्रं गार्ग्यः। गर्गादित्वाद्यञ्। गाग्र्यस्यापत्यं युवेत्यर्थे यञन्तात्फकि आयन्नादेश `अनाती'ति पर्युदासात् `आपत्यस्य चे'ति यलोपाऽभावे णत्वे `गाग्र्यायण' इति रूपमित्यर्थः। दाक्षायण इति। दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ्, दाक्षेरपत्यं युवा दाक्षायणः। इञन्तात्फक्। गोत्रे किम् ?। सुतङ्गमस्यादूरभव इत्यर्थे `सुतङ्गमादिभ्य इ'ञितीञि सौतङ्गमेरपत्ये न फक्।

तत्त्वबोधिनी

908 यञिञोश्च।अधिकारप्राप्तं गोत्रग्रहणं यञिञोर्विशेषणं न तु विधेयस्य फकः, व्याख्यानात्। तदेतदाह—गोत्रे याविति। गोत्रे किम्?। `द्वीपादनुसमुद्रं'यञ'द्वीपे भवो द्वौप्यः। सुतङ्गमादिभ्यश्चातुरर्थिक इञ्। सौतङ्गमिः। तदपत्ये फक्मा भूत्। फक्स्यादिति। सामथ्र्याद्यृन्ययम्।

Satishji's सूत्र-सूचिः

TBD.