Table of Contents

<<4-1-86 —- 4-1-88>>

4-1-87 स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्

प्रथमावृत्तिः

TBD.

काशिका

धान्यानां भवने क्षेत्रे खञ् 5-2-1 इति वक्ष्यति। तस्य प्रागित्यनेन एव सम्बन्धः। प्राग्भवनसंशब्दनाद् ये ऽर्थास् तेषु स्त्रीशब्दात् पुंस्शब्दाच् च यथाक्रमं नञ्स्नञौ प्रत्ययु भवतः। स्त्रीषु भवं स्त्रैणम्। पौंस्नम्। स्त्रिणां समूहः स्त्रैणम्। पौंस्नम्। स्त्रीभ्य आगतं स्त्रैणम्। अपुंस्नम्। स्त्रीभ्यो हितं स्त्रैणम्। पौंस्नम्। स्त्रियाः पुंवतिति ज्ञापकाद् वत्यर्थे न भवति। योगापेक्षं च ज्ञापकम् इति स्त्रीवदित्यपि सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1006 धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः. स्त्रैणः. पैंस्नः..

बालमनोरमा

1062 अथाऽपत्याधिकारो निरूप्यते। स्त्रीपुंसाभ्याम्। भवनशब्देन `धान्यायां भवने क्षेत्रे ख'ञिति सूत्रं विवक्षितम्। `प्राग्दीव्यत' इत्यतः प्रागित्यननुवृत्तम्। तदाह–धान्यानामिति। स्त्रीपुंसाभ्यामिति। `अचतुरे'त्यच्। स्त्रीशब्दात्, पुंस्शब्दाच्चेत्यर्थः। स्त्रैण इति। स्त्रिया अपत्यं, स्त्रीषु भवः स्त्रीणां समूह इत्यादिविग्रहः। नञ्, वृद्धिः, णत्वम्। पौंस्न इति। पुंसोऽपत्यं, पुंसि भवः, पुंसां समूह इत्यादिविग्रहः। पुंस्शब्दात् स्नञि `स्वादिषुइति पदत्वात्संयोगान्तलोपः, आदिवृद्धिः। प्रत्ययसकारस्तु श्रूयते, उभाभ्यामपि नञ्प्रत्ययस्यैव विधौ तु पुंसः सकारस्य संयोगान्तलोपे `पुन्न' इति स्यादिति भावः। वत्यर्थे नेति। `तेन तुल्यं क्रिया चेद्वति'रिति वतिप्रत्ययो वक्ष्यते। तस्यार्थे स्त्रीपुंसाभ्यां नञ्स्नञौ न भवत इत्यर्थः। कुत इत्यत आह स्त्री पुंवच्चेति ज्ञापकादिति। अन्यथा `पुंव'दिति निर्देशोऽनुपपन्नः स्यादिति भावः। न च `पुंव'दिति निर्देशः पुंस्शब्दाद्वतद्यर्थे स्नञभावं ज्ञापयेन्नतु स्त्रीशब्दान्नञभावमपीति वाच्यं, नञ्स्नञोरेकसूत्रोपात्ततया वत्यर्थे स्नञभावे ज्ञापिते सति स्त्रीशब्दान्नञभावस्यापि लाभात्, ज्ञापकस्य सामान्यापेक्षत्वात्। तदुक्तं भाष्ये `योगापेक्षं ज्ञापक'मिति।

तत्त्वबोधिनी

889 स्त्रीपुंसाभ्याम्। प्रागित्यनुवर्तते। तदाह—प्रागर्थेष्विति। र्पौस्न इति। इह `स्वादिषु'इति पदत्वात्संयोगान्तलोपेन पुंसः सस्य निवृत्तावपि प्रत्ययसकारः श्रूयत एव। अतएवोभाभ्यां परतो नञेव न विहितः, पौंस्नमिति रूपाऽसिद्धिप्रसङ्गात्। स्यादेतत्—उभाभ्यामपि प्रकृतोऽञेवाऽस्तु, तत्संनियोगेन `स्त्रीपुंसयोर्#उक्चे'ति नुगेव विधीयताम्। न चैवं `स्त्रैणाः, पौंस्नाः'इत्यत्र `\त्यञञोश्चे'ति लुक्प्रसङ्गः, रुऔणानां सङ्घ इत्यादौ `सङ्घाह्कलक्षणेषु' इत्यणप्रसङ्गश्च स्यादिति वाच्यम्, उभयत्रापि `गोत्रे'इत्यनुवृत्तेः। प्रवराध्यायप्रसिद्धं हि तत्र गोत्रम्। अन्यथा `पौत्राः, दौहित्राः'इत्यत्राऽप्यञो लुक्स्यात्। एवं च `नञ्स्नञीकक्ख्यु'न्निति वार्तिके नञ्स्नञ्ग्रहणं विनाऽञन्तत्वादेव ङीप्सिध्यतीत्यपरमप्यनुकूलमिति चेत्। अत्राहुः—नुकि `नस्तद्धिते'इति टिलोपः स्यात्। न चैवं नुगानर्थंक्यं, टिलोपप्रवृत्त्यैव नुकः सार्थकत्वात्। यद्यपि स्त्रीशब्दे तस्य सार्थक्यं नास्ति, `यस्येति चे'त्यनेनापीकारलोपसंभवात्, तथापि `श्रीर्देवताऽस्य श्रायं हविः'इत्यत्रैव लोपात्परत्वाद्वृद्धिः स्यात्, नुकि तु टिलोपः प्रवर्तते इति स्त्रीशब्देऽपि नुकः सार्थक्यमस्तु। तस्मान्नञ्स्नञाविति यतान्यासमेव स्वीकर्तव्यमिति। अन्ये तु `स्त्रीपुंसयोर्नुक्चे'त्यस्तु, आगमे अकारो विवक्षितः। तस्य च `यस्येति चे'ति लोपे कृतेऽपि स्थामिवत्त्वाट्टिलोपो न भविष्यति। एवं च `टिड्ढाण'ञिति सूत्रेणैव डीप्सिद्धौ नञ्स्नयोरुपसङ्ख्यानं माऽस्विति महदेव लाघवमित्याहुः। वत्यर्थ इति। `स्त्रीपुंसाभ्यां नञ्स्नञौ वत्यर्थे न प्रवर्तेते' इति सामान्यापेक्षं ज्ञापकमिति भावः। अत एवोदाहरति—स्त्रीवदिति। `आ च त्वा'दिति चकारो नञ्स्नञ्भ्यां त्वतलोः समावेशार्थ इति वक्ष्यति। तेन स्त्रीत्वं स्त्रीता, पुंस्त्वं पुंस्तेति सिद्धम्।

Satishji's सूत्र-सूचिः

TBD.