TBD.
प्राग्दीव्यतः इत्येव। उत्सादिभ्यः प्राग्दीव्यतीयेषु अर्थेषु अञ् प्रत्ययो भवति। अणस् तदपवादानां च बाधकः। औत्सः। औदपानः। उत्स। उदपान। विकर। विनोद। महानद। महानस। महाप्राण। तरुण। तलुन। बष्कया ऽसे। धेनु। पृथिवी। पङ्क्ति। जगती। तिर्ष्टुप्। अनुष्टुप्। जनपद। भरत। उशीनर। ग्रीष्म। पीलु। कुल। उदस्थानात् देशे। पृषदंशे। भल्लकीय। रथान्तर। मध्यन्दिन। बृहत्। महत्। सत्त्वन्तु। सच्छब्दो मतुबन्त आगतनुङ्को गृह्यते सत्त्वन्तु इति। कुरु। पञ्चाल। इन्द्रावसान। उष्णिक्। ककुब्ः। सुवर्ण। देव। ग्रीष्माच्छन्दसि इति वक्तव्यम्। इह मा भूत्। ग्रैष्ंई त्रिष्टुप्। छन्दश्च इह वृत्तं गृह्यते, न वेदः।
TBD.
1005
1061 उत्सादिभ्योऽञ्। `प्राग्दीव्यतीये\उfffदार्थेष्वि'ति शेषः। अणिञाद्यपवादः। `दृष्टं सामे'ति सूत्रभाष्ये `सर्वत्राऽग्निकलिभ्यां ढग्वक्तव्यः' इति वार्तिकं पठितम्। `दृष्टं सामे'त्यर्थे ततोऽन्येष्वप्यर्थेषु ढग्वक्तव्य इत्यर्थः।
-अग्निकलिभ्यामिति। अपत्यादीति। अग्निर्देवता अस्य इत्यादिसङ्ग्रहः। आग्नेयं कालेयमिति। ढकि एयादेशे कित्त्वादादिवृद्धौ `यस्येति च' इति लोपः। इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः।
888 उत्सादिभ्योऽञ्। अणस्तदपवादानामिञादीना चायमपवादः। इह `बष्कयाऽसे' इति गणसूत्रम्। असे=असमासे। पूर्वाचार्यसंज्ञेयम्। बष्कयस्यापत्यादि बाष्कयः। असे किम्?। गौबष्कयिः। `असे'इति निषेधाल्लिङ्गादिह तदन्तविधिः, तेन धेनुशब्दस्येह पाठाददेनूनां समूह आधेनवमिति सिद्धम्। नन्वेवं धैनुकं गौधेनुकमित्यत्राऽञ्प्रवर्तेत, `अचित्तहस्तिधेनो'रिति सूत्रे धेनुशब्दग्रहणाद्धैनुकमिति सिद्धावपि गौधेनुकं न सिद्ध्येदिति चेन्न, `धेनुरनञ् इकमुत्पादयती'ति विशेषवचनस्य भाष्ये स्थितत्वात्। इकं— ठकमित्यर्थः।\र्\नग्निकलिभ्यां ढग्वक्तव्यः। अग्निकलिभ्यामिति। अयं भावः—`साऽस्य देवता'इत्यधिकारे `अग्रेर्ढ'गिति सूत्रं,`दृष्टं सामे'त्यधिकारे `कलेर्ढ'गिति वार्तिकं चापनीय प्राग्दीव्यतीयेष्विदमेव पठनीयम्। तेनाऽग्नेरपत्यम्, अग्निना दृष्टं साम, अग्निरिदम्, अग्नौ भवम्, अग्नेरागतमाग्नेयमिति सिध्यति। तथा कलेरपत्यमित्याद्यर्थे कालेयमपि सिध्यतीति। एतेन `यदकालयत् तत्कालेयस्य कालेयत्व'मिति श्रुतावर्थान्तरेऽपि ढको दर्शनात् `कलेर्ढ'गिति सूत्रमपार्थकमिति मीमींसकोक्तिः परास्ता। वार्तिके सूत्रत्वोक्तिरप्यवैयाकरणमीमांसकप्रतारणार्थेति दिक्। इत्यपत्यादिबिकारान्तार्थसाधारणाः प्रत्ययाः।
TBD.