TBD.
निर्देशादेव समर्थविभक्तिः। धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यो भवने ऽभिधेये खञ् प्रत्ययो भवति, तच् चेद् भवनं क्षेत्रं भवति। भवनम् इति भवन्ति जायन्ते ऽस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रम् मौद्गीनम्। कौद्रवीणम्। कौलत्थीनम्। धान्यानाम् इति किम्? तृणानां भवनं क्षेत्रम् इत्यत्र न भवति। क्षेत्रम् इति किम्? मुद्गानां भवनं कुसूलम्। बहुवचनं स्वरूपविधिनिरासार्थम्।
TBD.
1167 भवत्यस्मिन्निति भवनम्. मुद्गानां भवनं क्षेत्रं मौद्गीनम्..
1779 अथ पाञ्चमिका निरूप्यन्ते। धान्यानां भवने। धान्यवाचिभ्यः षष्ठ\उfffद्न्तेभ्यो भने क्षेत्रेऽर्थे खञित्यर्थः। भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपपत्तेराह–भवन्त्यस्मिन्निति। भवनमिति। भूधातुरुत्पत्तिवाची। उत्पत्तिस्थानं भवनमिति लभ्यते। धान्योत्पत्तिस्थानं क्षेत्रम्। `केदारः क्षेत्र'मित्यमरः। क्षेत्रशब्दाऽभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्त्या आधारसामान्यं गृहकुसूलादिलभ्येत, अतः क्षेत्रपदम्। भवनपदाऽभावे तु क्षेत्रशब्देन सेतुवन्धकाश्यादिपुण्यप्रदेशोऽपि लभ्येत, अतो भवनपदम्। उभयोपादाने तु धान्योत्पत्तिप्रदेश एव लभ्यत इति न पौनरुक्त्यम्।
1371 धान्यानाम्। `धिवि प्रीणने'इत्यस्मात् `कृत्यल्युटो बहुल'मिति कर्तरि ण्यत्। अस्मादेव निपातनादन्त्यस्य लोप इकारस्य चात्वम्। धिनोतीति धान्यम्। मन्त्रश्च `धन्यमसि धिमुहि देवान्'इति दृश्यते। `धान्याना'मिति भवनापेक्षया कर्तरि षष्ठी। सा च निर्देशादेव समर्थविभक्तिः। बहुवचनं तु स्वरूपविधिनिरासार्थम्। अलौकिके प्रकियावाक्ये तु षष्ठ\उfffद्न्तत्वानुवादेन तद्विधिसामथ्र्यादेवेति बोध्यम्। भवतिरिहोत्पत्तिवचनः, क्षेत्रग्रहणसामथ्र्यात्। सूत्रे हि सत्तावचनस्यापि भवतेग्र्रहणं माभूदिति क्षेत्रग्रहणं कृतम्। अन्यथा `धान्यानां भवनं कुसूलः'इत्यत्रापि स्यादिति। धान्यानां किम्?। तृणानां भवनं क्षेत्रम्।
TBD.