Table of Contents

<<4-1-65 —- 4-1-67>>

4-1-66 ऊङुतः

प्रथमावृत्तिः

TBD.

काशिका

मनुस्यजातेः इति वर्तते। उकारान्तात् मनुस्यजातिवाचिनः प्रातिपदिकात् स्त्रियाम् ऊङ् प्रत्ययो भवति। कुरूः। बह्मबन्धूः। वीरबन्धूः। ङकारो नोङ्धात्वोः 6-1-175 इति विशेषणार्थः। दीर्घोच्चारणं कपो बाधनार्थम्। अयोपधातित्येतदत्र अपेक्ष्यते। अध्वर्युर् ब्राह्मणी। अप्राणिजातेश्चारज्ज्वादीनाम् इति वक्तव्यम्। अलाबूः। कर्कन्धूः। अप्राणिग्रहणं किम्? कृकवाकुः। अरज्ज्वादीनाम् इति किम्? रज्जुः। हनुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1274 उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात्. कुरूः. अयोपधात्किम्? अध्वर्युर्ब्राह्मणी..

बालमनोरमा

514 ऊडुतः। `अयोपधा'दिति `मनुष्यजाते'रिति चानुवर्तते, उत इति तद्विशेषणम्, तदन्तविधिः। तदाह–उकारान्तादित्यादिना। कुरूरिति। कुरुक्षेत्रस्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः। `गोत्रं च चरणैः सहे'ति जातित्वम्। कुरुशब्दाडूङि सवर्णदीर्घः। ऊङि दीर्घोच्चारणस्य प्रयोजनं भाष्ये स्पष्टम्। `तस्यापत्य'मित्यणमाशह्क्याह–कुरुनादिभ्यो ण्य इति। अपत्याधिकारस्थमिदं सूत्रम्। अनेन सूत्रेम अणपवादो ण्यप्रत्यय इत्यर्थः। तर्हि स श्रूयेतेत्यत आह–तस्येति। अध्वर्युरिति। अध्वर्युशाखाध्यायिनीत्यर्थः। चरणत्वाज्जातित्वम्। `पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते। अध्यापनं च वेदानां सावित्रीवचनं तथा।' इति यमादिस्मृतिः।\र्\नप्राणिजातेश्चेति। `वाचकाना'मिति शेषः। रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि ऊङ उपसङ्ख्यानमित्यर्थः। नन्वत्र उत इति संबध्यते वा, न वा ?। नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात्, अलाबूशब्दस्य ऊदन्तत्वात्। न द्वितीयः, अदन्तादपि अप्राणिजातिवाचन ऊङापत्तेरित्यत आह– रज्ज्वादिपर्युदासादिति। `उत' इति न संबध्यतो। अदन्तेषु नातिप्रसङ्गः `नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्रर्थगतिः' इति न्यायेन रज्ज्वादिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः। अलाब्वेति। अलाबूशब्दादूङि सवर्णदीर्घे अलाबूशब्दादूङन्तात्सुबुत्पत्तिः। टायां यणादेशे अलाब्वा इति रूपम्। एवं कर्कन्धूशब्दादूङन्ताट्टायां `कर्कन्ध्वा' इति रूपम्। `कर्कन्धूर्बदरी'त्यमरः, `तुम्ब्यलाबूरुभे समे' इति च। ननु ऊदन्तत्वादनयोरूङ्विधिव्र्यर्थ इत्यत आह– अनयोरिति। कृकवाकुरिति। पक्षिजातिविशेषः। अत्र मनुष्यजातित्वाऽभावात्पूर्वेणापि न ङीष्।

तत्त्वबोधिनी

464 ऊङुतः। ङकारो `नोङ्धात्वोः' इति विशेषणार्थः। अन्यथा `यगाग्वै' `यगाग्वै'इत्यत्रापि स निषेधः स्यात्। दीर्घोच्चारणं तु `\उfffदाश्रू'शब्दार्थम्। अन्यत्र सवर्णदीर्घेणापि सिद्धेः। कुरुरिति। लिङ्गविशिष्टपरिभाषया स्वादयः। अत्र व्याचक्षते—`यद्येकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादय इति व्याख्यायेत तर्हि `काण्डे' `कुड\उfffदे'इत्यादावपि `एकवचनमुत्सर्गतः'इति सुःप्रवर्तत, तद्वारणाय `अप्रत्ययः'इति प्रसज्यप्रतिषेधाभ्युपगमे तु प्रकृते दोषः। `\उfffदाश्रू'रित्यत्रैकादेशाऽभावाल्लिङ्गविशिष्टपरिभाषाया आवश्यकत्वाच्च। अतएव `रमे'इत्यत्र `एकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादयैति मनोरमादौ न व्याख्यातमिति। अध्वर्युरिति। अध्वर्युशाखाध्येत्री, अध्वर्युशाखाध्यायिवंशोद्भवेति वार्थः। चरणलक्षणेयं जातिः। अध्वरं यातीति विग्रहे `मृगय्यादयष्चे'त्यौणादिकेन अध्वरशब्दस्यान्तलोपः, याधातोः कुप्रत्ययश्च।\र्\नप्राण्जातेश्चारज्ज्वादीनामुपसङ्ख्यानम्। पर्युदासादिति। यदि सूत्रादुत इति गृह्रते तर्हि अलाब्बादावूहः संभवो नेति भावः। अलाब्वेत्यादि। प्रथमान्तं द्वितीयान्तं वा नोदाह्मतम्। वक्ष्यमाणप्रयोजनस्य तत्राऽसभवात्। नोङ्धात्वोरिति। ऊङ्धात्वोर्यणः परे शसादय उदात्ता न स्युरिति सूत्रार्थः।

Satishji's सूत्र-सूचिः

TBD.