Table of Contents

<<4-1-64 —- 4-1-66>>

4-1-65 इतो मनुस्यजातेः

प्रथमावृत्तिः

TBD.

काशिका

इकारान्तात् प्रातिपदिकात् मनुष्यजातिवाचिनः स्त्रियां ङीष् प्रत्ययो भवति। अवन्ती। कुन्ती। दीक्षी। प्लाक्षी। इतः इति किम्? विट्। दरत्। मनुष्यग्रहणं किम्? तित्तिरिः। जातेः इति वर्तमाने पुनर् जातिग्रहणं योपधादपि यथा स्यात्। औदमेयी। इञ उपसङ्ख्यानम् अजात्यर्थम्। सौतङ्गमी। मौनचित्ती। सुतङ्गमादिभ्यश्चातुरर्थिक इञ् न जातिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1273 ङीष्. दाक्षी..

बालमनोरमा

513 इतो मनुष्यजातेः। शेषपूरणेन सूत्रं व्याचष्टे–ङीष् स्यादिति। इदन्तान्मनुष्यजातिवाचिनः स्त्रियां ङीष्स्यादित्यर्थः। स्त्रीप्रत्ययविधिषु ?त इत्यनुवृत्तेरिदन्तात् `जातेरस्त्रीविषया'दित्यप्राप्तौ वचनम्। दाक्षीति। दक्षस्यापत्यं स्त्रीत्यर्थेः अत इञि अल्लोपः, आदिवृद्धिः, ङीष्, `यस्येति चे'तीकारलोपः। `गोत्रं च चरणैः सहे'ति जातिवाचित्वम्। दक्षः-प्रजापतिविशेषः। योपधादपीति। `अयं ङी'षिति शेषः। पुनर्जातिग्रहणेन योपधग्रहणस्याऽनुवृत्त्यभावबोधनादिति भावः। औदमेयीमि। उदमेयो नाम कश्चित्, तस्यापत्यं स्त्रीत्यर्थे `अत इञ्', `यस्येति चे'त्यल्लोपः, आदिवृद्धिः, औदमेयिशब्दान्ङीष्, `यस्येति चे'तीकारलोपः। तित्तिरिरिति। तित्तिरिः पक्षि जातिविशेषः। स्त्रियां ङीष् न, अमनुष्यजातिवाचित्वादिति भावः। `स्त्रीपुंसयोरपत्यन्तद्विचतुष्षट्पदोरगाः' इत्यमरकोशादयं स्त्रियामपि भवति, द्विपात्त्वात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.