Table of Contents

<<4-1-66 —- 4-1-68>>

4-1-67 बाह्वन्तात् संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

बाहुशब्दान्तात् प्रातिपदिकात् संज्ञायां विषये स्त्रियां ऊङ् प्रत्ययो भवति। भद्रबाहूः। जालबाहूः। संज्ञायाम् इति किम्? वृत्तौ बाहू अस्याः वृत्तबाहुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

515 बाह्वन्तात्संज्ञायाम्। `ऊङुत' इत्यत ऊङित्यनुवर्तते, स्त्रियामित्यधिकृतं, प्रातिपदिकादिति च। तदाह–स्त्रियामूङ् स्यादिति। भद्रबाहूरिति। कस्याश्चित्संज्ञा। संज्ञायां किमिति। संज्ञायामित्येतत्किमर्थमिति प्रश्नः। वृत्तबहुरिति। वृत्तौ बाहू यस्या इति विग्रहः। स्त्रियामपि नोङ्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.