Table of Contents

<<4-1-56 —- 4-1-58>>

4-1-57 सहनञ्विद्यमानपूर्वाच् च

प्रथमावृत्तिः

TBD.

काशिका

स्वाङ्गाच् च उपसर्जनातिति, नासिकौदरओष्ठजङ्घादन्तकर्ण. शृग्गाच् च 4-1-55 इति च प्राप्तो ङीष् प्रतिषिध्यते। सह नञ् विद्यमान एवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। सकेशा। अकेशा। विद्यमानकेशा। सनासिका। अनासिका। विद्यमाननासिका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

506 सहनञ्। त्रिकपूर्वादिति। `स्वाङ्गा'दिति शेषः। सकेशेति। सह केशा यस्या इति बहुव्रीहिः। सहशब्दो विद्यमानवचनः। `वोपसर्जनस्ये'ति सभावविकल्पः। `स्वाङ्गाच्चे'ति प्राप्तस्य निषेधः। `नासिकोदर' इति ङीष्विकल्पोऽप्यनेन बाध्यत इत्युक्तं स्मारयितुमुदाहरति –विद्यमाननासिकेति। विद्यमाना नासिका यस्या इति बहुव्रीहिः।

तत्त्वबोधिनी

456 सकेशाष अविद्यमानाः केशा यस्याः सा–अकेशा।

Satishji's सूत्र-सूचिः

TBD.