Table of Contents

<<4-1-57 —- 4-1-59>>

4-1-58 नखमुखात् संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

नखमुखान्तात् प्रातिपदिकात् संज्ञायाम् विषये स्त्रियां ङीष् प्रत्ययो न भवति। शूर्पणखा। वज्रनखा। गौरमुखा। कालमुखा। संज्ञायाम् इति किम्? ताम्रनखी कन्या। चन्द्रमुखी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1270 न ङीष्..

बालमनोरमा

507 नखमुखात्। नखमुखादिति। समाहारद्वन्द्वः। शेषपूरणेन सूत्रे व्याचष्टे–ङीष् नेति। `स्वाङ्गाच्चे'ति प्राप्तस्य निषेधोऽयम्। शूर्पणखेति। राक्षसीविशेषस्य नाम। शूर्पाणीव कररूहा यस्या इत्यस्वपदविग्रहः, संज्ञात्वेन नित्यसमासत्वात्। `पूर्वपदात्संज्ञाया'मिति णत्वम्। केवलयौगिकत्वे तु ङीष् भवत्येव। णत्वं तु न। गौरमुखेति–कस्याश्चिन्नाम। \उfffदोतं मुखं यस्या इत्यस्वपदविग्रहः ताम्रमुखीति। यौगिकोऽयम्। ताम्रं मुखं यस्या इति विग्रहः।

तत्त्वबोधिनी

457 शर्पणखेति। `पूर्वपदात्संज्ञाया'मिति णत्वम्। यदा तु शूर्पवन्नखानि यस्या इति योगमात्रं विवक्ष्यते न तु संज्ञा, ततोऽसंज्ञात्वान्न ङीष्निषेधो, न वा णत्वं, तेन राक्षस्यपि योगवृत्त्या `शर्पनखी'ति भवतीत्याहुः।

Satishji's सूत्र-सूचिः

TBD.