Table of Contents

<<4-1-54 —- 4-1-56>>

4-1-55 नासिकाउदरओष्ठजङ्घादन्तकर्णशृङ्गाच् च

प्रथमावृत्तिः

TBD.

काशिका

स्वाङ्गाच् च उपसर्जनातित्येव। बह्वज्लक्षणे संयोगोपधलक्षणे च प्रतिषेधे प्राप्ते वचनम्। सहनञ्विद्यमानलक्षणस् तु प्रतिषेधो भवत्येव। नासिकाऽअद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। तुङ्गनासिकी, तुङ्गनासिका। तिलोदरी, तिलोदरा। बम्बोष्ठी, बम्बोष्ठा। दीर्घजङ्घी, दीर्घजङ्घा। समदन्ती, समदन्ता। चारुकर्णी, चारुकर्णा। तीक्षणशृङ्गी, तीक्ष्णशृङ्गा। पुच्छाच् च इति वक्तवय्म्। कल्याणपुच्छी, कल्याणपुच्छा। कबरमणिविषशरेभ्यो नित्यम्। कबरपुच्छी। मणिपुच्छी। विषयुच्छी। शरपुच्छी। उपमानात् पक्षाच् च पुच्छात् च। उलूकपक्षीसेना। उलूकपुच्छी शाला।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

504 नासिकोदरोष्ठ। अस्वाङ्गपूर्वपदाद्वा' इत्यतो वेति, `अन्यतो ङीष्' इत्यतो ङीषिति चानुवर्तते। तदाह–एभ्य इति। उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः , पूर्वसूत्रादुपसर्जानादित्यनुवृत्तेः। ननु `स्वाङ्गाच्चे'ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह–आद्ययोरिति। नासिकोदरशब्दयोर्विषये `न क्रोडादिबह्वचः' इति निषेधः प्राप्तः सोऽनेन ङीष्विकल्पविधिना वाध्यत इत्यर्थः। बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः। ननु सहनासिका, अनासिका, सहोदरा, अनुदरा #इत्यत्र `सहनञ्विद्यमानपूर्वाच्चे'ति निषेधोऽप्यनेन वाध्यतां, `सहनञ्' इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्य आह–पुरस्तादिति। `पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्' इति न्यायादित्यर्थः। ततश्च `सहनञि'ति निषेधो `न क्रोडादि'सूत्रे व्यवहितत्वात् `नासिकोदर; इत्यनेन बाधं नार्हतीत्यर्थः। ओष्ठादिपञ्चकस्य प्रयोजनमाह–ओष्ठादीनामिति। सुगुल्फोत्यादावसंयोगापधादित्यस्य सावकाशत्वादिति भावः। ननु सहोष्ठा, अनोष्ठा इत्यादौ `सहनञि'ति निषेधोऽप्यनेन बाध्यतामित्यत आह– मध्येऽपवादेति। `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' इत#इ न्यायादित्यर्थः। ननु `नासिकोदर' इति ङीष्विकल्पस्तुङ्गनासिकीत्यादौ सावकाशः, `सहन'ञिति निषेधस्तु सहकेशेत्यादौ सावकाशः, सहनासिकेत्यादौ तूभयप्राप्तौ कतरस्या बाध इत्यत आह–सहनञ्लक्षणस्त्विति। अस्येति। `नासिकोदर' इति हीष्विकल्पविधेरित्यर्थः। तुङ्गनासिकी तुङ्गनासिकेति। `न क्रोडादिबह्वचः' इति बह्वज्लक्षणङीष्निषेधं बाधित्वा `नासिकोदर' इति विकल्पः। इत्यादीति। कुम्भोदरी- कुम्भोदरा। अत्र बह्वज्लक्षणङीष्निषेधं बाधित्वा ङीष्विकल्पः। बिम्बोष्ठी- विम्बोष्ठा। सुजङ्घी-सुजङ्घा। शुभ्रदन्ती-शुब्रादन्ता।सुकर्णी-सुकर्णा। सुश्रह्गी- सुश्रृङ्दा। ओष्ठादिषु संयोगोपधत्वेऽपि ङीष्विकल्पः। सहनासिकेति। सहशब्दोविद्यमानवचनः, सह नासिका यस्या इति विग्रहः। अविद्यमाना नासिका यस्या इति च विग्रहः। इह उभयत्रापि `सहनञ्विद्यमाने'ति ङीष्निषेधो नतु `नासिकोदर' इति ङीष्विकल्प इत्यर्थः। वक्तव्यमिति। `वा ङी'षिति इति शेषः संयोगापधत्वाद्ववचनम्। स्वङ्गीतचि। सु=शोभनानि अङ्गानि यस्या इति विग्रहः। सुगात्री-सुगात्रा। सुकण्ठी- सुकण्ठा। वृत्तिग्रन्थस्य मूलं दर्शयति–एतच्चेति। प्रामाणिका इति। एवं च तन्वङ्गी, सुगात्री, कलकण्ठी त्यपभ्रंशा एवेति भावः। संयोगापधत्वेऽपि पुच्छशब्दान्तान्ङीष्वेति वक्तव्यमित्यर्थः। कबरादिभ्यः परो यः पृच्छशब्दस्तदन्तान्नित्यं ङीषिति वक्तव्यमित्यर्थः। `पुच्छाच्चे'त्युक्ताविकल्पापवादः। कबरमित्यस्य व्याख्यानं त्रित्रमिति। इत्यादीति। मणिपुच्छी वृश्चकी। विषपुच्छी। शरपुच्छी पक्षिजातिविशेषः।\र्\नुपमानादिति। उपमानात्परौ यौ पक्षपुच्छशब्दौ तदन्तादपि ङीषित्यर्थः। नित्यमित्येवेति। नित्यमित्यनुवर्तत एवेत्यर्थः। विकल्पापवादः। उलूकपक्षी शालेति। उलूकः पक्षिविशेषः, उलूकपक्षाविव पक्षौ पार्\उfffदो यस्या इति विग्रहः। `सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्च' इति समासः। संयोगोपधत्वादप्राप्ते विधिः। उलूकपुच्छी सेनेति। उलूकपुच्छमिव पुच्छ=पश्चिमान्तो यस्या इति विग्रहः। पूर्वपदे बहुव्रीहिः। `पुच्छाच्चे'ति विकल्पस्यापवादः।

तत्त्वबोधिनी

455 मध्येऽपवादेति। `मध्येऽपवादाः पूर्वान्विधीन्बीधन्ते नोत्तरान् इति न्यायादित्यर्थः। उरः क्रोडेति। स्त्रीलिङ्गोऽयमिति हरदत्तादयः। तत्रोपसर्जमह्यस्वत्वे कृते अदन्तत्वान्ङीषः प्राप्तिः। अमरस्तु `न ना क्रोडं भुजान्तरम्'इत्याह। रत्नमतिस्तुपुंलिङ्गतामाह। `गणे च `क्रोड'इति प्रातिपदिकमात्रं पठ\उfffद्ते न तु टाबन्त'मिति गणरत्न महोदधिकारः। एवं चाऽविशेषाल्लिङ्गत्रयेऽप्युदाहरणं बोध्यम्। माधवस्तु–तुदादिगणे `क्रुड निमज्जने'इति धातावाह—`क्रोडः–धञ्। क्रोडा अ\उfffदानामुरः। टाबन्तोऽयं स्वभावतो विशेषविषयः। क्रोडादिषु टाबन्तमात्रस्य पाठात्। भुजान्तरमात्रवचनस्य क्रोडशब्दस्य बहुव्रीहौ स्वाङ्गलक्षणो ङीष्विकल्पो भवत्येव। `कल्याणक्रोडी कल्याणक्रोडा मयूरी'ति। केशैः सह वर्तत इति।

Satishji's सूत्र-सूचिः

TBD.