Table of Contents

<<4-1-115 —- 4-1-117>>

4-1-116 कन्यायाः कनीन च

प्रथमावृत्तिः

TBD.

काशिका

कन्याशब्दादपत्ये ऽण् प्रत्ययो भवति। ढको ऽपवादः। तत् सन्नियोगेन कनीनशब्द आदेशो भवति। कन्यायाः अपत्यं कानीनः कर्णः। कानीनो व्यासः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1024 चादण्. कानीनो व्यासः कर्णश्च..

बालमनोरमा

1103 कन्यायाः क। `कनीने'ति लुप्तप्रथमाकम्। ढक इति। `स्त्रीभ्यो ढ'हिति विहितस्येत्यर्थः। कनीनादेशश्चेति। `प्रकृते'रिति शेषः। भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम्। ननु कन्याया अप्रादुर्भूतयौवनत्वात्पुंसंयोगाऽभावात्कथमपत्यसम्बन्ध इत्यत आहानूढाया इति। अलब्धविवाहाया इत्यर्थः। एतच्च भाष्ये स्पष्टम्।

तत्त्वबोधिनी

923 कन्यायाः। ननु कन्या हृक्षतयोनिः, तस्याश्चाऽपत्यसंभव एव नास्तीत्याशङ्क्याह– -अनूढाया इथि। अविवाहिताया इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.