TBD.
यञः इत्येव। प्राचाम् आचार्याणां मतेन यञन्तात् स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञः। षकारो ङीषर्थः। प्रत्ययद्वयेन इह स्त्रीत्वं व्यज्यते। तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम्। गार्ग्यायणी। वात्स्यायनी। अन्येषाम् गार्गी। वात्सी। सर्वत्रग्रहणम् उत्तरसूत्रादिह अपकृष्यते बाधकबाधनार्थम्। आवट्यात् चापं वक्ष्यति, तम् अपि बाधित्वा प्राचां ष्फ एव यथा स्यात्। आवट्यायनी।
TBD.
1257 यञन्तात् ष्फो वा स्यात्स च तद्धितः..
466 प्राचां ष्फ तद्धितः। `यञ' इत्यनुवर्तते, स्त्रियामित्यदिकृतम्। `ष्पे' ति लुप्तप्रथमाकम्। तदाह–यञ्न्तादिति।
420 प्राचां ष्फ तद्धितः। `तद्धित'ग्रहणं ष्फप्रत्ययान्तस्य प्रातिपदिकसंज्ञार्थम्। तेन `षिद्गौरे'ति ङीष्सिध्यति। ननु प्रातिपदिकसंज्ञा विनापि षित्करणसामथ्र्यादेव ङीष्भाविष्यति किमनेन तद्धितग्रहणेन?। न च यञन्ते `यस्येति चे'ति लोपार्थं तदिति वाच्यम्। सवर्णदीर्घेणापि रूपसिद्धेर्लोपस्याऽनावश्यकत्वात्। एवं तर्हि तद्धितग्रहणमिञन्तादपि क्वचित्ष्फोभवतीति ज्ञापनार्थम्। तेन `आसुरेरुपसङ्ख्यान'मिति वक्ष्यमाणं सिध्यति।
TBD.