Table of Contents

<<4-1-171 —- 4-1-173>>

4-1-172 कुरुनादिभ्यो ण्यः

प्रथमावृत्तिः

TBD.

काशिका

जनपदशब्दात् क्षत्रियातित्येव। कुरुशब्दात् नादिभ्यश्च प्रातिपदिकेभ्यो ण्यः प्रत्ययो भवति। अणञोरपवादः। कौरव्यः। नकारादिभ्यः नैषध्यः। नैपथ्यः। तस्य राजनि इत्येव, कौरव्यो राजा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1032 कौरव्यः. नैषध्यः..

बालमनोरमा

1172 कुरुनादिभ्यो ण्यः। कुरुशब्दान्नकारादिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये राजनि च ण्यः स्यादित्यर्थः। कौरव्य इति। कुरोरपत्यं, कुरूणां राजेति वा विग्रहः। नैषध्य इति। निषधशब्दो देशे राजनि च। शैषिक इति। `तस्येदमित्यनेने'ति शेषः।

तत्त्वबोधिनी

968 कुरुना। नकार आदिर्येषां ते नादयः। कुरुशब्दाद्?व्द्यज्लक्षणे अणि प्राप्ते, नादिभ्यस्त्वञि प्राप्ते[च] वचनम्।

Satishji's सूत्र-सूचिः

TBD.