Table of Contents

<<4-2-120 —- 4-2-122>>

4-2-121 धन्वयौपधाद् वुञ्

प्रथमावृत्तिः

TBD.

काशिका

वृद्धातिति वर्तते, देशे इति च। धन्ववाचिनो यकारौपधाच् च देशाभिधायिनो वृद्धात् प्रातिपदिकात् वुञ् प्रत्ययो भवति शैषिकः। धन्वशब्दो मरुदेशवचनः। पारेधन्वकः। ऐरावतकः। योपधात् सांकाश्यकः। कम्पिल्यकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1326 धन्वयोपधाद्वुञ्। ऐरावतं धन्वेति। ऐरावताख्यं धन्वेत्यर्थः। धन्व-मरुप्रदेशः। `समानो मरुधन्वानौ' इत्यमरः। `आष्टकं नाम धन्वे'ति बाष्यान्नपुंसकत्वमपि। ऐरावतक इति। ऐरावताख्ये मरुप्रदेशे भव इत्यर्थः। वुञ्, अकादेशः। साङ्काश्यकः काम्पिल्यक इति। साङ्काश्ये काम्पिल्ये च भव इत्यर्थः।

तत्त्वबोधिनी

1056 धन्वयोपधा। धन्वेति न स्वरूपपर्याययोग्र्रहणं, वद्धत्वाऽसंभवादित्याशयेनाह— धन्वविशेषेति। ऐरावतं धन्वेति। यद्यपि `समानौ मरुधन्वानौ'इत्यमरेण पुंस्त्वमुक्तं, तथापि `आष्टकं नाम धन्वे'ति भाष्ये ह्यस्वापाठान्नपुंसकोऽपि धन्वशब्दोऽस्त्येवेति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.