Table of Contents

<<4-1-161 —- 4-1-163>>

4-1-162 अपत्येअं पौत्रप्रभृति गोत्रम्

प्रथमावृत्तिः

TBD.

काशिका

पौत्रप्रभृति यदपत्यं तद् गोत्रसंज्ञं भवति। सम्बन्धिशब्दत्वादपत्यशब्दस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर् गोत्रसंज्ञा विधीयते। गर्गस्य अपत्यं पौत्रप्रभृति गार्ग्यः। वात्सयः। अपत्यम् इति व्यपदेशो ऽयं पौत्रप्रभृतेः। पौत्रप्रभृति इति किम्? अन्यस्य मा भूत्। कौञ्जिः। गार्गिः। गोत्रप्रदेशाः एको गोत्रे 4-1-93 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1009 अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात्..

बालमनोरमा

1072 अपत्यम्। अपत्याधिकारात्सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह–अपत्यत्वेन विवक्षितमिति। एवंच पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसंज्ञेति भावः। `सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ' इति कोशतो गोत्रशब्दस्य सन्ततिवाचकत्वात्पुत्रस्यापि गोत्रत्वे प्राप्ते प्रौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम्। ननु `आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी। आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे' इत्यादिकोशादपत्यशब्दस्य पुत्र एव रूढत्वात्कथमम् `अपत्यं पौत्रप्रभृती'ति सामानाधिकरण्यमिति चेत्, मैवम्– अपत्यशब्दो हि नात्मजपर्यायः किंतु पुत्रपौत्रादिसंततिपर्यायः, `न पतन्ति नकरे पितरो येन तदपत्य'मिति `पङ्क्तिविंशती'ति सूत्रे भाष्ये व्युत्पादितत्वात्। तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति `एको गोत्रे' इति सूत्रभाष्ये स्पष्टम्। एतच्च महाभारतादौ जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमेव। कोशस्तु सूत्रभाष्यादिविरुद्धत्वादुपेक्ष्य एव। न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यं, यस्य यः पौत्रादिस्तस्य तद्गोत्रमिति व्याख्यानादित्यलम्।

तत्त्वबोधिनी

898 अपत्यवाचकादिति। `तस्यापत्य'मित्यादिना विहितः प्रत्ययो यथा षष्ठ\उfffद्न्तोपग्वादिशब्ददभ्युपगम्यते, तथा अपत्यवाचिकदेवदत्तादिशब्दात्प्रत्ययो भवत्विति शङ्का स्यात्, तद्वारणार्थं प्रथमाद्ग्रहणमावश्यकमिति भावः। ननु `उपगोरपत्य'मिति विग्रहवाक्येऽपत्यवाचकस्याऽप्राथम्येऽपि `अपत्यमुपगो'रिति वाक्ये प्राथम्यात्स्यादेवापत्यवाचकात्प्रत्यय इति चेत्। मैवम्। लक्षणापेक्षं प्राथम्यं नियतत्वादत्राश्रीयते, न तु विग्रहापेक्षमनियतम्। अन्यथा `प्रथमादि'त्येतन्निरर्थकंस्यादिति। षष्ठ\उfffद्र्थे मामूदिति। अयमर्थः—यथा इन्द्रो देवता अस्य हविष इति ऐन्द्र'हविरिति प्रथंमान्तात्प्रत्ययो भवति तथा उपगुरपत्यमस्य देवदत्तस्य `औपगवो देवदत्तः'देवदत्तोऽपत्यमस्योपगोः `दैवदत्तिरुपगु'रिति माभूदिति। एतच्च कैयटे स्पष्टम्॥ नन्वपवादत्वात्तद्धितः समासं नित्यं बाधेत। न च तद्धितस्य वैकल्पिकत्वात्पक्षे सोऽपि भविष्यतीति वाच्यं, `यत्रोत्सर्गापवादौ महाविभाषाया विकल्प्येते, तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते, इति `पारेमध्ये'इत्यत्र वाग्रहणेन ज्ञापितत्वादित्याशङ्क्याह– अन्यतरस्याङ्ग्रहणानुवृत्तोरिति। जातित्वादिति। `गोत्रं च चरणैः सहेत्येनेने'ति शेषः। प्राचा तु `अणन्तत्वान्ङी'भित्युक्तम्। तव्द्याख्यातृभिश्च `टिड्ढाणञि'त्यनेने'त्युक्तम्। तदुभयमपि `गोत्राद्यून्यस्त्रियाम्'इति सूत्रस्थभाष्यनुरोधेन `गोत्रं च चरणै'रित्यत्र कृत्रिमं गोत्रमेव गृह्रते, न त्वपत्यमात्रमित्याशयेन प्रवृत्तमिति बोध्यमित्याहुः। सूत्रस्थान्महोत्सर्गान्कमेणोदाहरति—आ\उfffदापत इत्यादि। औत्स इति। `उत्सः प्ररुआवणं वारि प्रवाहो निर्झरो झरः'इत्यमरः। तस्य टचापत्येन योगस्तु `गङ्गेयो भीष्मः'इतिवति। अपत्यं पौत्रं। नन्वपत्यग्रहणं व्यर्थं, पौत्रादेरपत्यात्वाऽव्यभिचारादित्यत आह–अपत्यत्वेन विवक्षितमिति। विवक्षितमिति किं?। वस्तुतः पौत्रप्रभृत्येव यदा शेषत्वेन विवक्ष्यते `गर्गस्येद'मिति, तदा मा भूदित्याहुः। अन्ये तु–वस्तुतः पौत्रादीनामेव तत्त्वेन विवक्षायां संज्ञा मा भूत्, अपत्यत्वेन विवक्षायामेव यथा स्यादित्येवमर्थं तत्। तेन `औपगव'इत्यादावप्यणर्थस्य गोत्रसंज्ञा सिद्द्यति। नह्रणः पौत्रत्वादिकं शक्यतावच्चेदकं, किं त्वपत्यत्वमेव। अन्यथा गोत्राधिकारस्थायञाद्यर्थस्यैव गोत्रसंज्ञा स्यादिति। नन्वपत्याधिकारे गोत्रयुवसंज्ञाकरणसामथ्र्यादपत्यमिति लभ्यत एवेति तेनैवोक्तप्रयोजनसिद्धौ किमनेना[त्रा]पत्यग्रहणेनेति चेत्। अत्राहुः—-`ते तद्राजाः'इत्यत्र तच्छब्देन `जनपदशब्दात्क्षत्रियादञि'त्यदिना विहिता येऽञादयस्त एव गृह्रन्ते न तु ततः प्राक्तनप्रत्ययाः, गोत्रयुवसंज्ञाकाण्डेन विच्छिन्नत्वादिति वक्ष्यते। तथा चापत्याधिकारपठनसामथ्र्यस्योपक्षयादपत्यस्याऽसंबन्धशङ्कानिराकरणाय पुनरपत्यग्रहणमिह कृतमिति। पौत्रप्रभृतीति किम्?। अनन्तरापत्ये मा भूत्—कोञ्जि;। गार्गिः। न चैवमप्यङ्गिरसः पौत्रे गर्गस्यानन्तरे अतिप्रसङ्ग इति वाच्यं, `यस्य पौत्रादि तं प्रत्येव गोत्रसंज्ञे'ति स्वीकारात्। एवं च गार्गि प्रत्यनन्तरापत्यत्वेन विवक्षायामपि गर्गं प्रति गोत्रत्वं निष्प्रत्यूहमिति स्यादेव गर्गाद्यञिति दिक्।

Satishji's सूत्र-सूचिः

TBD.