TBD.
अभिजनप्रबन्धो वंशः। तत्र भवो वंश्यः पित्रादिः। तस्मिन् जीवति सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति। पौत्रप्रभृति इति च न सामानाऽधिकरण्येन अपत्यं विशेषयति, किं तर्हि, षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर् यदपत्यम् इति। तेन चतुर्थादारभ्य युव। संज्ञा विधीयते। गार्ग्यायणः। वात्स्यायनः। तुशब्दो ऽवधारणार्थो युव एव न गोत्रम् इति।
TBD.
1013 वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्..
1073 जीवति। वंशः–उत्पादकपित्रादिपरम्परा। तत्र भवो वंश्यः। दिगादित्वाद्यत्। तदाह–वंश्ये पित्रादौ जीवतीति। जीवतीति सप्तम्यन्तम्। पौत्रादेरिति। पूर्वसूत्रात्पौत्रप्रभृति इत्यनुवृत्तं षष्ठ\उfffदा विपरिणम्यत इति भावः। यदपत्यमिति। `तस्यापत्य'मित्यतस्तदनुवृत्तेरिति भावः। तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः। तदाह–युवसंज्ञमेनेति। तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन्न समावेश इति भावः। युवसञ्ज्ञया सहगोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात्। शलङ्कुः कश्चित्, तस्य गोत्रापत्यं शालङ्किः। इञ्। पैलादिगणे शालङ्कीति पाठात्प्रकृतेः शलङ्कादेशश्च। शालङ्केरपत्यं युवापि शालङ्किरेव। `यञिञोस्चे'ति फक्। `पैलादिभ्यश्चे'ति तस्य लुक्। शालङ्केर्यूनछात्रा इत्यर्थे `इञश्चे'त्यणि `शालङ्का' इति रूपम्। तथा पीलाया गोत्रापत्यं पैलः। `पीलाया वा' इत्यण्। पैलस्यापत्यं युवापि पैल एव। `अणो द्व्यचः' इति फिञ्। `पैलादिभ्यश्चे'ति तस्य लुक्। पैलस्य यूनश्छात्र इत्यर्थे वृद्धाच्छः। `पैलीया' इति रूपम्। युवगोत्रसंज्ञयोः समावेशे तु `गोत्रेऽलुगचि' इति फक्फिञोरलुक्प्रसज्येतेत्यलम्।
899 जीवति तु वंश्ये। पितृपितामहाद्युत्पादकप्रबन्धो वंशः। तत्र भवो वंश्यः। दिगादित्वाद्यत्। `पौत्रप्रभृती'त्यनुवृत्तं षष्ठ\उfffदा विपरिणम्यते, व्याख्यानात्, `गोत्राद्यून्यस्त्रिया'मिति लिङ्गाच्चेत्याह—पौत्रादेरिति। तुशब्दोभिन्नक मो युवेत्यस्मात्परो बोध्यः। स च एवकारार्थ इति व्याचष्टे।
TBD.