Table of Contents

<<4-1-92 —- 4-1-94>>

4-1-93 एको गोत्रे

प्रथमावृत्तिः

TBD.

काशिका

अपत्यं पौत्रप्रभृति गोत्रम् 4-1-162। तस्मन् विवक्षिते भेदेन प्रत्यपत्यं प्रत्ययोत्पत्तिप्रस्ङ्गे नियमः क्रियते, गोत्रे एक एव प्रत्ययो भवति, सर्वे ऽपत्येन युज्यन्ते। अपतनादपत्यम्। यो ऽपि व्यवहितेन जनितः, सो ऽपि प्रथमप्रकृतेरपत्यं भवत्येव। गर्गस्य अपत्यं गार्गिः। गार्गेरपत्यं गार्ग्यः। तत्पुत्रो ऽपि व्यवहितेन जनितः, सो ऽपि प्रथमप्रकृतेरपत्यं भवत्येव। गर्गस्य अपत्यं गार्गिः। गार्गेरपत्यं गार्ग्यः। तत्पुत्रो ऽपि गार्ग्यः। सर्वस्मिन् व्यवहितजनिते ऽपि गोत्रापत्ये गर्गशब्दाद् यञेव भवति इति प्रत्ययो नियम्यते। अथवा गोत्रापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः प्रत्ययम् उत्पादयति इति प्रकृतिर् नियम्यते। गार्ग्यः। नाडायनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1010 गोत्रे एक एवापत्यप्रत्ययः स्यात्. उपगोर्गोत्रापत्यमौपगवः..

बालमनोरमा

1076 एको गोत्रे। संख्याविशेषोपादाने तदितरसङ्ख्याव्यवच्छेदस्य स्वभावसिद्धत्वादेक एवेति गम्यते। अपत्याधिकारात्प्रत्ययाधिकाराच्चापत्यप्रत्यय इति तद्विशेष्यलाभः। तदाह–गोत्रे एक एवापत्यप्रत्ययः स्यादिति। औपगव इति। उपगोर्गोत्रापत्ये `तस्यापत्य'मित्यण्। गाग्र्य इति। गर्गस्य गोत्रापत्ये `गर्गादिभ्य' इति यञ्। नाडायन इति। नडस्य गोत्रापत्ये `नडादिभ्यः' इति फक्। `गोत्र एक एव प्रत्ययः स्या'दित्येबोक्तौ त्वनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिञ्प्रत्ययो न निवार्येत। नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वार्येत। अतोऽपत्यग्रहणमित्याहुः। नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाऽप्रसक्तेव्र्यर्थमिदं सूत्रमिति चेत्, मैवम्-अपत्यशब्दो हि पुत्र एव रूढ इत्येक पक्षः। पुत्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम्। तदेतत् `अपत्यं पौत्रप्रभृती'ति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः। तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुं प्रत्यपत्यत्वाऽभावात् `तस्यापत्य'मित्यण्न सम्भवति। ततश्च उपगुपुत्रे वाच्ये `तस्यापत्य'मित्यणा औपगवशब्दे व्युत्पादिते सति, औपगवस्यापत्ये वस्तुतः उपगोस्तृतीया गोत्रे विवक्षिते औपगवशब्दात् `अत इ'ञिति इञि औपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात्। एवञ्च उपगोस्तृतीये विवक्षिते उपगोरण् औपगवादिञिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात्। तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमिञ्प्रत्ययमण्प्रत्ययो घटयतीति सोऽप्यनिष्ट एव। तथाच तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादित्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते। सच वस्तुतोऽणेव, न त्विञ्, अदन्तत्वाऽभावात्। विहिते च तस्मिन्नौपगवादिञपि निवर्तते, गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः। अतः प्रत्ययद्वमाला निवर्तते। एवमुपगोश्चतुर्थे विविक्षिते तस्य उपगुं तत्पुत्रं च प्रत्ययपत्यत्वाऽभावात् पौत्रं प्रत्येवापत्यत्वादौपगविशब्दात् `यञिञोश्चेति फकि प्रकृतित्रयादनिष्टा `औपगवायन' इति प्रत्ययत्रयमाला स्यात्। उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिञि `औपगवायनि'रित्येवं प्रकृतिचतुष्टयमाला स्यात्। षष्ठे तु औपगवायनिशब्दात्फकि `औपगवायनायन' इत्येवं प्रकृतिपञ्चकात्पञ्च प्रत्ययाः स्युः। तदेवं फगिञोः परम्परायां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः। तदेवं फगिञोः परम्परायां मूलप्रतृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः। अत्र तृतीयप्रभृति क\उfffद्स्मश्चिद्गोत्रे विवक्षिते उपगुं प्रत्यनपत्येऽपि तस्मिन् `एको गोत्रे' इत्यणेव भवति, नतु इञादि। यदा त्वपत्यशब्दः पुत्रपौत्रादिसाधारणस्तदा यद्यपि उपगोरनन्तरापत्ये पुत्रे इव पौत्रादिष्वपि विवक्षितेषु `तस्यापत्य'मित्यणि औपगव इतीष्टं सिध्यति। तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्तरापत्ये उपगोस्तृतीये विवक्षिते द्वितीयस्मादेकः प्रत्ययोनिष्टः प्रसज्येत। एवमुपगोश्चतुर्थे विवक्षिते सिद्धेऽपि उपगोरणि औपगवे, तस्मादिञि औपगविः, तस्मात्फकि औपगवायन इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत। तत्रापि उपगोर्मूलप्रकृतेरणिष्ट एव। इञ्फकौ तु प्रत्ययावनिष्टौ। तथा उपगोश्चतुर्थे विवक्षिते द्वितीयस्मादेकोऽनिष्टप्रत्ययः, तृतीयस्मादन्य इत्येवं प्रकृतिद्वयादनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति। एवं पञ्चमे प्रकृतित्रयात्रयः प्रत्ययाः। षष्ठे प्रकृ-तिचतुष्टय#आच्चत्वारः प्रत्यया इत्येवं मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनिष्टप्रत्ययाः स्युः। तत्र `एको गोत्रे' इति नियमविधिः–`गोत्रे एक एव प्रत्ययः स्या'दिति। तत्रापि प्रथमातिक्रमे कारणाऽभावान्मूलप्रकृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति। सूत्रे एकशब्दः प्रथमपर्यायः। `एके मुख्यान्यकेवलाः' इत्यमरः। मुखे भवो मुख्यः=प्रथमः। `एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा' इति कोशान्तरम्। तथाच मूलप्रकृतेरेव गोत्रे विवक्षिते स्वयोग्यप्रत्ययलाभ इति व्याख्यान्तरम्। गोत्रे एकः प्रथम एवशब्दः प्रत्ययत्पादक इति। तदेतत्सर्वं श्लोकद्वयेन संगृह्णाति–गोत्रे स्वैकोनेति। अत्र प्रथमश्लोकान्ते श्रुतं `प्रसज्यते' इत्येतत्पदं पूर्वार्धे परम्परेत्यनन्तरमपि संबध्यते। तत्र स्वं=गोत्रं मूलपुरुषोपग्वपेक्षया यत्संख्याकं तदपेक्षया एकोनसङ्ख्याकानामनिष्टप्रत्ययानां परम्परैवोक्तरीत्या प्रसज्येत, नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिध्यतीत्यर्थः। तत् मूलपुरुषोपग्वक्षया यत्सङ्ख्याकं तदपेक्षया द्व्यूनसङ्ख्याकप्रकृतिभ्यस्तावतां प्रत्ययानामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्यत इत्यर्थः। ननु कथमिदं पक्षद्वयमित्यत आह–अपत्यमित्यादि मतभेदेनेत्यन्तम्। `पुत्र एवापत्य'मिति पक्षे प्रथमः पक्ष उन्मिषथतीति, `पुत्रपौत्रादि साधारणोऽपत्यशब्द' इति पक्षे तु द्वितीयः पक्ष उन्मिषतीति भावः। तद्धान्यै इति। तस्य=उक्तप्रकाराभ्यामनिष्टोत्पादनस्य हानिः=निवृत्तिः, तदर्थमिदमित्यर्थः। तथोत्तरमिति। `गोत्राद्यून्यस्त्रिया'मित्युत्तरसूत्रमपि तथा योज्यमित्यर्थः। तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टं प्रपञ्चयति–पितुरेवेत्यादिना। औपगवादिञ्स्यादिति। `अत इञ् इत्यनेने'ति शेषः। औपगवादेव इञ् स्यन्नतूपगोरणित्यर्थः, तृतीयस्य उपगुं प्रत्यपत्यत्वाऽभावादिति भावः। चतुर्थे त्वित्यतः पूर्वम् `उपगो'रिति शेषः। अजीवज्ज्येष्ठे इति। जीवन् ज्येष्ठो यस्येति विग्रहः। जीवति तु ज्येष्ठे चतुर्थस्य `भ्रातरि च ज्यायसी'ति युवसंज्ञया गोत्रत्वं बाध्येतेति भावः। औपगवेः फगिति। `यञिञोश्चेनेने'ति शेषः। एकोनेति। एकोनशतात्प्रकृतिभ्यः एकोनशतं प्रत्यया अनिष्टाः स्युरित्यर्थः। अथाऽपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे अनिष्टं प्रपञ्चयति– पितामहादीनामपीति। मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपक्षस्य निराकरणात् `अपत्यं पौत्रप्रभृति' इति सूत्रस्वरसाच्च बोध्यम्। इष्टे सिद्धेऽपीति। तृतीयादीनामप्यपत्यत्वेन तत्र `तस्यापत्य'मित्यणो निर्बाधत्वादिति भावः। तत इति। इञन्तादित्यर्थः। अष्टनवतेरिति। `प्रकृतिभ्यः' इति शेषः। अनिष्टप्रत्ययाः स्युरिति। `अष्टनवति'रिति शेषः। नियमार्थमिति। यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथमपक्षे, तथापि गर्गात्तृतीयादिषु विवक्षितेषु गोत्रविहितगर्गादियञा गाग्र्यशब्दस्येष्टस्य सिद्धावपि गर्गादिञि ततः फिञित्येवं प्रत्ययपरम्पराप्तनिष्टा प्राप्नोतीति नियमार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः। एवमुत्तरसूत्रेऽप्यूह्रमिति। तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते।

तत्त्वबोधिनी

901 एको गोत्रो। `गोत्रे'इति जात्यपेक्षया एकवचनम्। एकशब्दः सङ्ख्यावाची। `गोत्रेऽभिधित्सितेऽपत्यत्वबोधकप्रत्यय एक एव स्या'दित्युक्तेगोत्रापत्ये प्रथम एव शब्दः प्रत्ययं लभते नान्यः। यदि त्वनन्तरापत्यप्रत्ययान्तादपि प्रत्ययः स्यात्तर्हि गोत्रापत्ये एक एव प्रत्ययो न कृतः स्यात्। इत्थं च `अपत्यप्रत्ययान्तात्प्रतिषेधोवाच्यः'इति वार्तिकार्थोऽप्यनेन सङ्गृहित इत्याशयेन व्याचष्टे—गोत्रे एव एवेति। अपत्यप्रत्यय इति। एतच्चाधिकारल्लब्धम्। अन्ये तु– एकशब्दः प्रथमपर्यायः, प्रथमश्चापत्यप्रत्ययशून्यः। तथा च `प्रथमा प्रकृतिर्गोत्रे अपत्यप्रत्ययं लभते'इति सूत्रार्थ व्याचक्षते। तत्क्लिष्टम्। `अस्यां पङ्क्तावेकमानये'त्युक्ते `प्रथम'मिति प्राथम्यार्थस्याऽप्रतीतेः। वस्तुतस्तु `प्रथमादित्यधिकाराद्गोत्रे प्रथमादेव प्रातिपदिकादपत्यप्रत्ययः'इति व्याख्यायैकग्रहणमिह त्यक्तुं शवयमित्याहुः। औपगव इथि। उपगुशब्द एव प्रत्ययं लभते, न त्वौपगवशब्दः इति `गोत्रापत्येऽप्यनन्तरापत्य इवाऽणेव भवति, न त्विञ्। गग्र्य इति। गोत्रापत्ये `गर्गादिभ्योय'ञिति विशिष्य विधानादनन्तरापत्य इवात्र `अत इञ्' न भवति, किं तु यञेव। स च गाग्र्यस्यापत्येऽपि भवति, नत्वत्र यञन्तात्फक्, `एको गोत्रे'इति नियमात्। नाडायण इति। `नडादिभ्यः फ'गिति गोत्रापत्ये विधानादत्रापि `अत इञ'न भवति, किंतु फगेव, स च नाडायनस्यापत्येऽपि भवति, न तु फगन्तादिञ्, उक्तनियमात्। नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाऽप्रसक्तेव्यर्थमिदं सूत्रमित्याशङ्क्य सूत्रारम्भफलं मतभेदेन व्यवस्थापयति–गोत्रे स्वैकोनेति। `स्व=गोत्रं, तदपेक्षया एकोनसङ्ख्यानां, तृतीये द्वयोः परम्परा, चतुर्ये त्रयाणां, पञ्चमे तु चतुर्णा'मित्यादिपरम्परा प्रसज्यत इत्यर्थः। तथाहि–उपगोस्तृतीये अणिञोः परम्परा, चतुर्थे त्वणिञ् फगिञाम्,। यद्यप्यत्र `यस्येति च' इति लोपेनाऽणादेरसत्त्वात् `अणिञादीनां परम्परे'त्युक्तिर्न सङ्गच्छते, तथापि `अणन्तादिञुत्पद्यते, इञन्तत्फगि'त्युपत्तिमात्राभिप्रायेण प्रत्ययपरम्पराभिधानं बोध्यम्। स्वद्व्यूनसङ्ख्येभ्य इति। स्वं=गोत्रं, तदपेक्षया द्व्यूनसङ्ख्येभ्यः प्रातिपदिकेभ्यः, तृतीये एकस्मादनिष्ठोत्पत्तिः, चतुर्थे द्वाभ्यां, पञ्चमे त्रिभ्यः, इत्यादीत्यर्थः। अपत्यं पितुरेवेति। तता चामरः–`आत्मजस्तनयःस सूनुः सुतः पुत्रः स्त्रियां त्वमी। आहुर्दुहितरं सर्वेऽपत्यं तोकं तयो#ः समे'इति। मुख्यमतमाह—ततः प्रातामिति। पित्रपेक्षया ये प्राञ्चः पितामहप्रपितामदादयस्तेषामपीत्यर्थः। अत्रायमाशयः—अपत्यशब्दः कियानिमित्तो न त्वात्मजपर्यायः, `न पतन्त्यनेनेत्यपत्य'मिति व्युत्पत्तेः `पङ्क्तिर्विशती'ति सूत्रे भाष्यकृता दर्सितत्वात्, बाहुलकात्करणे यत्प्रत्ययः। `यन्निमित्तं यस्यापतनं तत्तस्यापत्य'मिति फलितोऽर्थः। तथा च `पौत्रादिरपि पितामहादीनामपतनहेतु'रिति तेषामपत्यत्वं भवति। प्रसिद्धं च व्यवहितोऽपि पितामहादीनामुद्धर्तेति जरत्कार्वाद्युपाख्यानेषु। `अपत्यं पौत्रप्रभृती'ति सूत्रमप्यत्रानुगुणम्। आद्यपक्षे हि `अपत्यमिवापत्य'मिति गौणी वृत्तिराश्रयणीया स्यात्। अमरस्तु सूत्रभाष्यादिविरोधादुपेक्ष्य इति। तद्धान्यै इति। आद्यपक्षे प्रत्ययमाला निवृत्तये, अन्ये तु स्वद्व्यूनङ्ख्येभ्योऽनिष्टोत्पत्तिनिवृत्तये इत्यर्थः। औपगवादिञ्स्यादिति। तृतीयस्य उपगुं प्रति अनपत्यत्वादिति भावः। एवं चऽसति सूत्रे अस्मिन्पक्षे औपगविरित्यनिष्टमेव स्यात् `औपगव'इतीष्टं तु न सिद्द्यतीति बोध्यम्। अजोबज्ज्येष्ठे इति। जीवज्ज्येष्ठे जीवदूंश्ये वा युवसंज्ञायां सत्यां गोत्रसंज्ञा नेति भावः। इष्टे सिद्धेऽपीति। अस्मिन् पक्षे औपगवस्य यदपत्यं तदुपयोगप्यपत्यमिति उपगोर्यदा प्रत्ययः तदा `औपगवः' इतीष्टं यद्यपि सिद्द्यपि, तथाप्यौपगविरित्यनिष्टं प्राप्नोतीत्यर्थः। तत इति। इञन्तादित्यर्थः। फगिञोरिति। फगन्तादिञ्, इञन्तात्फक्, तदन्तात्पुनरिञित्यादिपरम्परायां सत्यामित्यर्थः। नियमार्थमिति। नन्वाद्यपक्षे तत्तत्पितृवाचकादेव प्रत्ययो, न तु मूलभूतात्स्यात्, अनन्तरापत्ये मुख्यसंबन्धे चरितार्थस्याऽणादेर्गौणसंबन्धेऽपि प्रवृत्तेरन्याय्यत्वात्। तथा चौपगवापत्येन उपगोर्मुख्यसंबन्धाऽभावादत्राऽप्राप्ते विध्यर्थमेवेदं सूत्रं, न तु नियमार्थमिति औपगवशब्दादपि प्रत्ययो दुर्वार इति चेदत्राहुः–गोत्रे बोधनीये क्रमेणाऽनेकप्रत्ययप्रसङ्गे एक एवापत्यप्रत्ययः स्यादिति सूत्रार्थे कृते औपगवशब्दस्यापत्यप्रत्ययान्तत्वात्पुनरपत्यप्रत्ययस्ततो नोपपद्यते इत्यगत्या परम्परासम्बन्धाभ्युपगमेनोपगोरेव तदुत्पत्तिः, न त्वौपगवशब्दादिति सिद्धिमिष्टमिति। अत्र केचिव्द्याचक्षते—`आद्यपक्षे प्रत्ययपरम्परायां प्राप्तायाम् `एको गोत्रे'इत्यनेनैकः प्रत्ययो विधीयते। तथा चैको नामैकजातीय इत्यर्थपर्यवसानान्मूलप्रकृतेर्थोऽपत्यप्रत्ययोऽणादिस्तज्जातीय एव गोत्रे बोधनीये तत्तत्पितृवाचकाद्भवति `अणन्तादण्, इञन्तादिञ्, यञन्ताद्यञिति। न चैवमणिञोः परम्परायां निवर्तितायामप्यौपगव इत्यत्राऽण्प्रत्ययपरम्परा स्यात्, तथा गग्र्य इत्यादौ यञादिपरम्परेति वाच्यं, सत्यामपि तस्यामनिष्टाऽभावा'दिति। तच्चिन्त्यं। फगन्तात्फकि `नाडायन'इत्यादावनिष्टप्रसङ्गादिति दिक्। ऊह्रमिति। `अपत्यं पितुरेवे'ति पक्षे चतुर्थापत्यरूपे यूनि विवक्षिते `गोत्राद्यूनी'ति नियमसूत्रे सत्यसति च गोत्रप्रत्ययान्तादेव युवप्रत्यय इति द्वयोः परम्परा, सा चेष्टत्वान्न नियमेन व्यावर्त्त्यते। पञ्चमे तु यूनि नियमाऽभावे त्रयाणां परम्परा प्रसज्येत। षष्ठे तु चतुर्णामित्यादि। `ततः प्राचामपी'ति द्वितीयपक्षे तु–गर्गाचतुर्थे यूनि मूलप्रकृत्यनन्तराभ्यामनिष्टोत्पत्तिः प्रसज्ते। पञ्चमे तु – मूलप्रकृत्यनन्तरयुवभ्यः। तथा नडाच्चतुर्थे यूनि पूर्ववद्द्वाभ्यामनिष्टोत्पत्तिः। पञ्चमे त्रिभ्यः। उपगोश्चतुर्थे वाच्ये तु मूलप्रकृतेरेकस्मादेवानिष्टोत्पत्तिः, न त्वनन्तरा पत्यवाचकात्। ततो जातेऽप्यत इञि रूपानिष्टाभावादित्यादि यथासंभवं तत्रोह्रमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.