Table of Contents

<<4-1-160 —- 4-1-162>>

4-1-161 मनोर् जातावञयतौ षुक् च

प्रथमावृत्तिः

TBD.

काशिका

मनुशब्दादञ् यतित्येतौ प्रत्यौ भवतः, तत् सन्नियोगेन षुगागमः, समुदायेन चेज् जातिर् गम्यते। मानुषः, मनुष्यः। जातिशब्दावेतौ। अपत्यार्थो ऽत्र न अस्त्येव। तथा च मानुषाः इति बहुषु न लुग् भवति। अपत्यविवक्षायां तु अणैव भवितव्यम्। मानवी प्रजा। अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस् तेन सिध्यति माणवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1167 मनोर्जातौ। मनुशब्दादञ् यत् एतौ प्रत्ययौ स्तः, तयाः परयोर्मनुशब्दस्य षुगागमश्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामित्यर्थः। तदाह–समुदायार्थो जातिरिति। नात्राऽपत्यग्रहणं संबध्यत इति भावः। अन्यथा `मानुषा' इत्यत्र `यञञोश्चे'ति लुक्स्यादिति बोध्यम्।

तत्त्वबोधिनी

965 मानुषः। मनुष्य इति। जातिशब्दावेतौ। `अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः'। णत्वविधानार्थमिदम्, अमः सिद्धत्वात्। अनधीतवेदत्वान्मूढत्वं, विहिताननुष्ठानाच्च कुत्सितत्वम्। इदं च वचन `ब्राआहृणमाणवे'ति णत्वनिपातनाल्लब्धमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.