Table of Contents

<<4-1-15 —- 4-1-17>>

4-1-16 यञश् च

प्रथमावृत्तिः

TBD.

काशिका

ङीपित्येव। यञन्ताच् च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। गार्गी। वात्सी। अपत्यग्रहणं कर्तव्यम्। इह मा भूत्, द्वीपादनुसमुद्रं यञ् 4-3-10 द्वैप्या। योगविभागः उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1255 यञन्तात् स्त्रियां ङीप्स्यात्. अकारलोपे कृते -.

बालमनोरमा

464 ङीबित्यनुवर्तते। स्त्रियामित्यधिकृतम्। तदाह–यञन्तादिति। यद्यपि `टिड्ढाणञि'ति पूर्वसूत्र एव यञ्ग्रहणं कर्तुमुचितं `तथापि ष्फ तद्धितः' इत्युत्तरसूत्रे यञ एवानुवृत्तये पृथक् सूत्रमिति भावः। अकारलोपे कृते इति। गार्गीत्युदाहरणं वक्ष्यति। गर्गस्यापत्यं स्त्री इत्यर्थे `गर्गादिभ्यो यञि'ति यञ्, आदिवृद्धिः, `यस्येति चे'ति गकारादकारस्य लोपः। गाग्र्यशब्दान्भीपि `हलस्तद्धितस्ये'ति यकारलोपात्परत्वात् `यस्येति चे'ति यकारादकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः।

तत्त्वबोधिनी

418 यञश्च। योगविभाग उत्तरार्थः। `प्राचां ष्फ तद्धितः'इत्यत्र यञ एवानुवृत्तिर्यथा स्यात्।

Satishji's सूत्र-सूचिः

TBD.