Table of Contents

<<4-1-151 —- 4-1-153>>

4-1-152 सेनान्तलक्षणकारिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

सेनान्तात् प्रातिपदिकात् लक्षणशब्दात् कारिवचनेभ्यश्च अपत्ये ण्यः प्रत्ययो भवति। कारिशब्दः कारूणां तन्तुवायादीनां वाचकः। कारिषेण्यः। हारिषेण्यः। लाक्षण्यः। कारिभ्यः तान्तुवाय्यः। कौम्भकार्यः। नापित्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1159 सेनान्त। एभ्य इति। सेनान्तलक्षणकारिभ्य इत्यर्थः। अकुर्वादित्वाद्वचनम्। हारिषेण्य इति। हरिषेणो नाम कश्चित्। `एति संज्ञायां'मिति षत्वम्। तस्याऽसिद्धत्वात्सेनान्तत्वाण्ण्यः। लाक्षण्य इति। लक्षणमस्यास्तीति लक्षणः। अर्शाअद्यच्। तस्यापत्यमिति विग्रहः। कारिपदं व्याचष्टे–कारिः शिल्पीति। तस्मादिति। कारिविशेषवाचिनो ण्ये सतीत्यर्थः। तान्तुवाय्य इति। तन्तुवायस्यापत्यमिति विग्रहः। कौम्भकार्य इति। कुम्भकारस्यापत्यमिति विग्रहः। नापित्य इति। नापितस्यापत्यमिति विग्रहः।

तत्त्वबोधिनी

959 हारिषेण्य इति। `एति संज्ञाया'मिति षत्वस्याऽसिद्धत्वत्सेनान्तोऽयम्। उदीचामिञोपवादोऽयमण्। अस्मादुपसङ्ख्यानाच्छिवादिषु तक्षन्शब्दपाठोऽनार्षं इति गम्यते। वृत्तिकारस्तु—तक्षन्शब्दं शिवादिषु पठित्वा `कारिलक्षणमुदीचाभिञमयमण्बाधते, णस्य तु बाधो नेष्यते'इत्याह। तदनुरोधेनास्माभिरपि तत्र तथैव व्याख्यातम्। फले विशेषाऽभावात्।

Satishji's सूत्र-सूचिः

TBD.