Table of Contents

<<4-1-130 —- 4-1-132>>

4-1-131 क्षुद्राभ्यो वा

प्रथमावृत्तिः

TBD.

काशिका

ढ्रकनुवर्तते, न आरक्। क्षुद्राः अङ्गहीनाः शीलहीनाश्च। अर्थधर्मेण तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिष्यन्ते। क्षुद्राभ्यो वा अपत्ये दृअक् प्रत्ययो भवति। ढको ऽ पवादः। काणेरः, काणेयः। दासेरः, दासेयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1121 श्रुद्राभ्यो वा। अङ्गहीना इति। चक्षुरादिकतिपयावयवविकला इत्यर्थः। शीलहीना इति। सद्वृत्तहीना इत्यर्थः। यथेष्टपुरुषसंचारिण्य इति यावत्। `अनियतपुंस्का अङ्गहीना वा क्षुद्राः' इति भाष्यम्।

तत्त्वबोधिनी

937 क्षुद्राभ्यः। अर्थगतं स्त्रीत्वं शब्दे आरोप्यं स्त्रीलिङ्गनिर्देशः।

Satishji's सूत्र-सूचिः

TBD.