TBD.
कल्याणी इत्येवम् आदीनां शब्दानाम् अपत्ये ढक् प्रत्ययो भवति, तत्संनियोगेन च इनङादेशः। स्त्रीप्रत्ययान्तानाम् आदेशार्थं ग्रहणं, प्रत्ययस्य सिद्धत्वाद्। अन्येषाम् उभयार्थम्। काल्याणिनेयः। सौभागिनेयः। दौर्भागिनेयः। हृद्भगसिन्ध्वन्ते पूर्वपदस्य च 7-3-19 इत्युभयपदवृद्धिः। कल्याणी। सुभगा। दुर्भगा। बन्धकी। अनुदृष्टि। अनुसृष्टि। जरती। बलीवर्दी। ज्येष्ठा। कन्ष्ठा। मध्यमा। परस्त्री।
TBD.
–
1115 काल्याणिनेय इति। कल्याण्या अपत्यमिति विग्रहः। बान्धकिनेय इति। बन्धक्या अपत्यमिति विग्रहः। अत्र गणे स्त्रीप्रत्ययान्ता एव पठ\उfffद्न्ते। तेभ्यो ढक्सिद्ध एव इनङेव तु विधीयते।
932 कल्याण्यदीनाम्। इह परस्त्रीशब्दः पठ\उfffद्ते। `परस्य स्त्री परस्त्री'ति षष्ठीसमासः। पारस्त्रैणेयः। परभार्यायामुत्पन्न इत्यर्थः। अनुशतिकादित्वादुभयपदवृद्धिः। बिदादिगणे तु `परस्त्री परशुं चे'ति पठ\उfffद्ते। `प्राप्नोती'ति शेषः। तत्र परा चासौ स्त्री चेति कर्मधारयः। परस्त्रिया अपत्यं– पारशवःष ब्राआहृणाच्छूद्रायां तेनैवोढायामुत्पन्नः। सा च जात्यन्तरयोगात्परस्त्री। न च पर\उfffदाआदेशस्य स्थानिवद्भावात्पारशवेऽपि `अनुशतिकादीनां चे'त्युभयपदवृद्धिः स्यादिति वाच्यं,सत्यादेशे पूर्वोत्तरपदसंप्रमोहात्तदप्रवृत्तेः। इह गणे स्त्रीप्रत्ययान्तानां ढकः सिद्धत्वादिनङर्थं ग्रहणम्। अन्येषां तूभयार्थम्। कल्याणी, सुभगा, दुर्भगा, बन्धकी, परस्त्रीत्यादि।
TBD.