Table of Contents

<<4-1-127 —- 4-1-129>>

4-1-128 चटकाया ऐरक्

प्रथमावृत्तिः

TBD.

काशिका

चटकायाः अपत्ये ऐरक् प्रत्ययो भवति। चाटकैरः। चटकाच् च इति वक्तव्यम्। चटकस्य अपत्यं चाटकैरः। स्त्रियाम् अपत्ये लुग् वक्तव्यः। चटकाया अपत्यं स्त्री चटका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1118 चटकायाः। चटकाशब्दादपत्ये ऐरक्?प्रत्ययः स्यादित्यर्थः। ननु स्त्रीलिङ्गनिर्देशात्पुंलिङ्गान्न स्यादित्यत आह–चटकादिति। सूत्रे `चटकाया' इत्यपनीय `चटका'दिति वाच्यमित्यर्थः। तर्हि स्त्रीलिङ्गान्न स्यादत आह–लिङ्गेति।

चटकायटाश्चेत्यर्थः। ननु चटकेति कथं, जातित्वान्ङीष्प्रसङ्गादित्यत आह– अजादित्वादिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.