Table of Contents

<<4-1-112 —- 4-1-114>>

4-1-113 अवृद्धाभ्यो नदीमानुषीभ्यस् तन्नामिकाभ्यः

प्रथमावृत्तिः

TBD.

काशिका

वृद्धिर् यस्य अचाम् आदिस् तद् वृद्धम् 1-1-73। अवृद्धाभ्यः इति शब्दधर्मः, नदीमानुषीभ्यः इति अर्थधर्मः, तेन अभेदात् प्रकृतयो निर्दिश्यन्ते। तन्नामिकाभ्यः इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्शः। अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्यो ऽपत्ये अण् प्रत्ययो भवति। ढको ऽपवादः। यमुनाया अपत्यं यामुनः। इरावत्याः अपत्यम् ऐरावतः। वैतस्तः। नार्मदः। मानुषीभ्यः खल्वपि शिक्षितायाः अपत्यं शैक्षितः। चिन्तितायाः अपत्य चैन्तितः। अवृद्धाभ्यः इति किम्? चन्द्रभागायाः अपत्यं चान्द्रभागेयः। वासवद्त्तेयः। नदीमानुषीभ्यः इति किम्? सौपर्णेयः। वैनतेयः। तन्नामिकाभ्यः इति किम्? शोभनायाः, शौभनेयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1100 अवृद्धाभ्यो नदी। नदीमानुषीशब्दापेक्षमवृद्धाभ्य इति स्त्रीत्वम्। वस्तुतस्तु `अवृद्धेभ्यो नदीमानुषीनामभ्य' इत्येव सूत्रयितुमुचितमिति व्याचष्ट–अवृद्धेभ्य इत्यादि। ननु `तस्यापत्य'मित्येकसिद्धे किमर्थमिदमित्यत आह–ढकोऽपवाद इति। चिन्तिता नाम काचिन्मानुषी। वासवदत्तेय इति। वासवदत्ता नाम काचिन्मनुष्यस्त्री। तस्या अपत्यमिति विग्रहः। वृद्धसंज्ञकत्वादणभावे ढगिति भावः। वैनतेय इति। विनताया अपत्यमिति विग्रहः। विनता नाम गरुडमाता, सा न मानुषी, नापि नदीति भावः। शौभनेय इति। शोभनाशब्दोऽयं न नदीमानुषीनामेति भावः।

तत्त्वबोधिनी

920 अवृद्धाभ्यो। `अवृद्धेभ्यो नदीमानुषीनामभ्यः'इत्येव सूत्रयितुं युक्तमित्याशयेन व्याचष्टे–अवृद्धेभ्य इत्यादिना। आत्रेय इति। परत्वादयमृष्यणं बाधत ऐति भावः।

Satishji's सूत्र-सूचिः

TBD.