TBD.
ऋषयः प्रसिद्धा वसिष्ठादयः। अन्धकाः वृष्णयः कुरवः इति वंशाख्याः। ऋष्यादिकुर्वन्तेभ्यः प्रातिपदिकेभ्यो ऽपत्ये अण् प्रत्ययो भवति। इञो आवादः। अत्र्यादिभ्यस् तु परत्वाड् ढगादिभिरेव भवितव्यम्। ऋषिभ्यस् तावत् वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः श्वाफल्कः। रान्धसः। वृष्णिभ्यः वासुदेवः। आनिरुद्धः। कुरुभ्यः नाकुलः। साहदेवः। कथं पुनर् नित्यानां शब्दानामन्धकादिवंशसमाश्रयेण अन्वाख्यानं युज्यते? केचिदाहुः कथम् अपि काकतालीयन्यायेन कुर्वादिवंशेष्वसंकरेण एव नकुलसहदेवादयः शब्दाः सुबहवः सङ्कलिताः, तानुपादाय पाणिनिना स्मृतिरुपनिबद्धा इति। अथवान्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादयः, तत्र इदं प्रत्ययविधानम् इत्यदोषः।
TBD.
1021 ऋषिभ्यः - वासिष्ठः. वैश्वामित्रः. अन्धकेभ्यः - श्वाफल्कः. वृष्णिभ्यः - वासुदेवः. कुरुभ्यः - नाकुलः. साहदेवः..
1101 ऋष्यन्धक। प्रलीना वेदास्तपोबलवशाद्यान् अर्षन्ति=प्राप्तनुवन्ति ते ऋषयः। तथा च तैत्तिरीये श्रुतम् –`अजान्ह वै पृश्नींस्तपस्यमानान्ब्राहृ स्वयम्भ्वभ्यानर्षत्, त ऋषयोऽभवन्, तदृषीणामृषित्व'मिति। अजाः=नित्याः, पृस्नयः=शुक्लाः। शुद्धा इति यावत्। तान्तपस्यमानांस्तपश्चरतः स्वयम्भु=अनादि ब्राहृ वेदः अभ्यानर्षत्। `ऋष गतौ'। आभिमुख्येन प्राप्नोत्। ते वेदस्य अर्षणादृषिशब्दवाच्या अभव'न्निति वेदभाष्यम्। `सर्बादिसमये वेदान्सेतिहासान्महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा। ' इति पुराणेषु प्रसिद्धं कात्यायनप्रणीतसर्वानुक्रमणिकाख्यग्रन्थेस्पष्टमेतत्। तदाह–ऋषयो मन्त्रद्रष्टार इति। अन्धकशब्देन वृष्णिशब्देन कुरुशब्देन च अन्धकादिवंश्या विवक्षिताः। ऋषिविशेषवाचिभ्योऽन्धकादिवंश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः। इञोऽपवादः। ऋषिभ्य उदाहरति–बासिष्ठः वै\उfffदाआमित्र इति।\र्\नन्धकेभ्य इति। अन्धकवंश्यवाचिभ्य उदाह्यियते इत्यर्थः। वासुदेव इति। वसुदेवस्यापत्यमिति विग्रहः। आनिरुद्ध इति। अनिरुद्धस्यापत्यमिति विग्रहः। ननु शूरो नाम कश्चिद्वृष्णिवंश्यः, तस्यापत्यं शौरिः कथम्स अण्प्रसङ्गादित्यत आह–शौरिरिति त्विति। `बाह्वादित्वा'दित्यनन्तरमिञा समाधेय'मिति शेषः। कुरुभ्य इति। कुरुवंश्यवाचिभ्य उदाह्यियते इत्यर्थः। नकुलसहदेवौ प्रसिद्धौ। नन्वत्रेरपत्यमित्यर्थे `#इतश्चानिञ' इति ढकि आत्रेय इति कथम्, ऋष्यणा इञ इव ढकोपि बाधौचित्यादित्यत आह–इञ एवेति। न तु ढक इत्यर्थः।
–
TBD.