Table of Contents

<<4-1-101 —- 4-1-103>>

4-1-102 शरद्वच्छुनकदर्भाद् भृगुवत्साऽग्रायणेषु

प्रथमावृत्तिः

TBD.

काशिका

गोत्रे इत्येव। शरद्वत् शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथासङ्ख्यं भृगुवत्साग्रायणेषु अर्थेषु अपत्यविशेषेषु। शारद्वतायनो भवति भार्गवश्चेत्। शारद्वतो ऽन्यः। शौनकायनो भवति वात्स्यश्चेत्। शौनको ऽन्यः। दार्भायणो भवति आग्रायणश्चेत्। दार्भिरन्यः। शरद्वच्छुनकशब्दौ बिदादी। ताभ्याम् अञो ऽपवादः फक्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1088 शरद्वच्छुनक। शेषपूरणेन सूत्रं व्याचष्टे–गोत्रे फगिति। आद्यौ विदादी इति। शरद्वच्छुनकशब्दौ विदादी। अतस्तदुभयविषयेऽञपवाद इत्यर्थः। दर्भविषये त्विञोऽपवाद इति स्पष्टमेव। दर्भः–कस्चिदृषिः। ऋष्यणं बाधित्वा बाह्वादित्वादिञ्। आग्रायणश्चेदिति। अग्रो नाम कश्चिदृषिः। नडादिफगन्तोऽयम्।

तत्त्वबोधिनी

909 शरद्वच्छुनक। भृगः शरद्वतोऽपत्यं न भवति, पूर्वभावित्वात्। एवं शुनकस्यापत्यं न भवति वत्सः। अतोऽत्र भार्गवश्च वात्स्यश्चाग्रायणश्चेति द्वन्द्वे `अत्रभृगु'इति `यञिञोश्चे'ति च यथासंभवं लुग्बोध्यः। यद्यप्यत्र बहुत्वाऽभावात् `अत्रिभृगु'इत्यादिना लुग्दुर्लभस्तथापि युगपदधिकरणवचनतायां वर्तिपदानां बह्वर्थत्वात्सौत्रत्वाद्वा स्यादेव लुक्। अतो व्याचष्टे—भार्गवश्चेदिकि। वात्स्यश्चेदिति च।

Satishji's सूत्र-सूचिः

TBD.